अथ पञ्चमप्रश्ने तृतीयोऽध्यायः
अथ ऋतुशान्तिं व्याख्यास्यामः तिथिवारनक्षत्रयोगकरणलग्नदोषशान्त्यर्थं चतुर्थे वा पञ्चमेऽह्नि वा शान्तिस्नानं प्रकुर्वीत १
देवालये गृहे वा प्रस्थाष्टभिर्धान्यैस्तदर्धं तण्डुलैस्तदर्धं तिलैश्चोपर्युपरि चतुरश्रमरत्निमात्रं चतुरश्रं स्थण्डिलं कृत्वा तन्मध्ये नलिनमुल्लिख्य तस्मिन् तन्तुवेष्टितं कुम्भं निधाय तूष्णीं संस्कृताभिरद्भिः प्रोक्ष्य ब्रह्म जज्ञानम् इति कुम्भं निधाय सपवित्रेण आपो वा इदं सर्वम् इत्येतेनानुवाकेन अब्लिङ्गाभिश्च कुम्भमुदकैः पूरयित्वा गन्धादिभिरलङ्कृत्य कूर्चमन्तर्धाय गजाश्वरथवल्मीकमृदमाहृत्य गोकुलात् चतुष्पथाद्राजगृहात्तुलसीबिल्वमूलयोः २
देवालयात्पर्वताद्वा गृह्णीयात्पञ्च मृत्तिकाः पालाशोदुम्बराश्वत्थवटप्लक्षकयाज्ञिषु ३
जम्बूबिल्वकपित्थाम्रशिरीषेषु च पल्लवान् तेषां त्वचश्च पञ्चैव गृह्णीयात्सम्भवेषु वै ४
इत्युक्तरीत्या पञ्च मृत्तिकाः पञ्च पल्लवान् पञ्च त्वचश्च निक्षिप्य नवरत्नमीषत्काञ्चनं नववस्त्रेणाच्छाद्य चूतपल्लवैर्बिल्वपल्लवैर्वाऽवकीर्य नालिकेरफलेनापिधाय दर्भैर्दूर्वादिना प्रतिच्छाद्यालङ्कृत्य सम्परिस्तीर्य पुरुषं पुण्डरीकाक्षं ध्यात्वा कुम्भं सम्पूज्य श्रोत्रियान् विप्रान् षडष्टौ वा वरणपूर्वकमभ्यर्च्याचार्यं चाभ्यर्चयेत् ५
त ऋत्विजः कुम्भमन्वारभ्य वैष्णवीं गायत्रीमष्टसहस्रमष्टशतं वा वदन्तो वेदादीन् आपो हिष्ठा मयोभुवः इति तिस्रः हिरण्यवर्णाः पवमानः इत्यनुवाकौ वरुणसूक्तं श्रीसूक्तं पुरुषसूक्तं पञ्चशान्तिम् ऋचां प्राची इत्येतमनुवाकं च जपेयुः । नमो ब्रह्मण इति परिधानायां त्रिरन्वाह इति ब्राह्मणम् ६
प्रणवेनोत्थाप्य आभिर्गीर्भिः इति जपेयुः ७
अथालङ्कृतामङ्कण उरुविष्टर आसीनां देवस्य त्वा इति त्रिभिः प्रोक्ष्य ऋतं च सत्यं च इति त्रिभिर्मन्त्रैः ऋत्विजः स्नापयेयुः ८
ततो नारीं पञ्चगव्यं प्राशयेत् ९
गायत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयम् आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि तथा शुक्रमसीत्याज्यं देवस्य त्वा कुशोदकम् इति पञ्चगव्यम् १०
अथ शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरश्रमुपलिप्य लौकिकमग्निं श्रोत्रियागारादाहृत्य स्वगृह्योक्तविधानेनाऽग्निमुखात् कृत्वा पालाशसमिद्भिरष्टोत्तरशतं विष्णुसूक्तेन जुहुयात् ११
तथा ब्रह्मसूक्तेनान्नं रुद्रसूक्तेनाज्यम् १२
एतानि सूक्तान्यष्टादशकृत्वः प्रत्येकमावर्तयेत्तदानीं अष्टोत्तरशतं सम्पद्यते १३
अथर्तुनक्षत्रस्य समिदन्नाज्याहुतीः प्रत्येकमष्टाविंशतिकृत्वः तन्मन्त्रेण जुहुयात् १४
मन्त्रौ चतुर्दशकृत्व आवर्तयेत् १५
अथ त्रियम्बकेन तिलहोममष्टोत्तरशतं जुहुयात् १६
अथाज्याहुतीर्घृतसूक्तेनाष्टौ जुहुयात् १७
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् १८
अथ ऋत्विग्भ्यो दक्षिणां ददात्याचार्याय विशेषतः १९
एवं यदि शान्तिं कुर्यात्ततो नारी दोषान्मुच्यते सर्वारिष्टशान्तिरस्त्वित्याह भगवान् बोधायनः २०
इति बोधायनीये गृह्यशेषसूत्रे पञ्चमप्रश्ने तृतीयोऽध्यायः