अथ पञ्चमप्रश्ने द्वितीयोऽध्यायः
अथ विवाह्यकन्यारजस्वलाप्रायश्चित्तादिविधिं व्याख्यास्यामः विवाहे वितते यज्ञे होमकाल उपस्थिते कन्यामृतुमतीं दृष्ट्वा कथं कुर्वन्ति याज्ञिकाः १
यजः पवित्रैस्सावित्र्या प्रोक्षयेत्पूतवारिभिः अनेन चानुवाकेन पवमानस्सुवादिना २
स्रापयित्वाऽथ विद्वद्भिरन्यवस्त्रादलङ्कृताम् पूर्णाहुत्यथ मिन्दाभ्यां महाव्याहृतिभिस्सह ३
हुत्वा तन्तुमतीं चैव व्याहृतीभिस्तथैव च अनाज्ञातं च विद्वद्भिश्शेषं कार्यं समाचरेत् ४
प्रधानहोमे निर्वृत्ते मलवद्वाससी भवेत् त्रियहे पर्यवेतेऽथ शेषकार्यं समाचरेत् ५
लाजमाज्यं स्रुवं चैव प्रणीताश्मानमेव च सर्वमभ्यन्तरं कृत्वा ब्रह्मैवैको बहिर्भवेत् ६
दक्षिणां दिशमाश्रित्य यमो मृत्युश्च तिष्ठति दम्पत्यो रक्षणार्थाय ब्रह्मैवैको बहिर्भवेत् ७
अङ्गुल्यग्रैर्न होतव्यं न कृत्वाऽञ्जलिभेदनम् दञ्जलेर्वामभागेन लाजहोम इति स्मृतः ८
आद्यं प्रदक्षिणं कुर्याद्ब्रह्मणा सह मानवः प्रदक्षिणत्रयं पश्चाद्विना तमिति केचन ९
नामादिनान्दीकरणमाशिषं द्विजभोजनम् रक्षाबन्धनमन्नादि चौलाद्यङ्कुरमेव च १०
गर्भवर्जोत्सवात्पूर्वमयुगेऽह्न्यङ्कुरार्पणम् प्रदोषे वाऽथ सायाह्ने गुणाधिक्यऽह्नि वेष्यते ११
आधानगर्भसंस्कारजातकर्माणि नाम च हित्वाऽन्यत्र विधातव्यं मङ्गलाङ्कुरवापनम् १२
पुंसि नामान्नचौलोपस्नानपाणिग्रहेषु च अग्न्याधाने च सोमे च दशस्वभ्युदयं स्मृतम् १३
आधाने सोमयागे च दम्पत्योरुभयोरपि सीमन्ते पुंसवे गर्भे स्त्रिया एव तु कौतुकम् १४
इति बोधायनीये गृह्यशेषसूत्रे पञ्चमप्रश्ने द्वितीयोऽध्यायः