अथ पञ्चमप्रश्ने प्रथमोऽध्यायः
अथाग्निमुखप्रयोगः १
शुचौ समे देशे गोमयेन गोचर्ममात्रं स्थण्डिलमुपलिप्य तत्र प्राङ्मुखस्स्नानादिपञ्चकं कृत्वोपविश्य स्फ्येनोद्धत्यावोक्ष्य पञ्चप्रस्थसिकताभिस्स्थण्डिलकरणं व्याहृतीभिर्नियुप्यारत्निमात्रं समचतुरश्रं कृत्वा तस्मिन् प्रादेशमात्रं चतुरश्रं दर्भैः त्रिःप्राचीनमुल्लिखेदङ्गुष्ठानामिकाभ्यां कनिष्ठिकया वा ब्रह्म जज्ञानम् इति मध्ये । दक्षिणे नाके सुपर्णम् उत्तरे आप्यायस्व इति त्रिरुदीचीनम् । मध्ये यो रुद्रः इत्यप उपस्पृश्य पश्चिमे इदं विष्णुः प्राच्यां इन्द्रं विश्वा अवीवृधन् इति दर्भं निरस्याप उपस्पृश्याग्नेरासनं कल्पयित्वा यथोक्तमग्निं पत्न्याहृतमङ्गाररूपं व्याहृतीभिर्नियुप्य तत्पात्रेऽक्षतजलं निनयेत् २
अथ प्रोक्षितस्थूलकाष्ठत्रयेण तूष्णीमन्वाधायोपतिष्ठतेऽग्निम् जुष्टो दमूनाः इति ३
अथासनं कल्पयित्वा तृणं निरस्याप उपस्पृश्यात्र वा पूर्वे दक्षिणतः पश्चादुत्तरतोऽथैनं प्रदक्षिणमग्निं परिसमूह्य पर्युक्ष्य परिस्तीर्य दक्षिणानुत्तरानुत्तरानधरान् ४
पात्रोत्तरासनं ब्रह्मदक्षिणासनं प्रणीतोत्तरासनं पश्चादात्मासन सर्वं कल्पयित्वा पात्राणि सादयेदाज्यस्थालीं स्रुवं च जुहूं प्रणीतां च चरुस्थालीं प्रोक्षणीं चेध्माबर्हिश्चेध्मप्रव्रश्चनानि मेक्षणं च सादयित्वा दर्भैः प्रतिच्छाद्य शूर्पं कृष्णाजिनं चेत्यत्र दर्वीहोमो विकल्पे ५
अथ बर्हिषः पवित्रे कुरुते प्रादेशमात्रे समे अप्रतिच्छिन्नाग्रे अनखच्छिन्ने तरुणे तूष्णीमद्भिरनुमृज्य कृत्वा प्रोक्षण्यां निधायाप आनीय त्रिरुत्पूयाद्भिः प्रोक्ष्योत्तानानि पात्राणि कृत्वा विस्रस्येध्मं त्रिः प्रोक्ष्य ब्राह्मणमिष्टिवद्दक्षिणत उपवेश्य ॐ भूर्भुवस्सुवर्ब्रह्मन् ब्रह्मासि नमस्ते ब्रह्मन् ब्रह्मणे इति ब्राह्मणमुपतिष्ठत आदिशो व्युन्नयनादास्ते ६
यद्वा कूर्चमुपवेश्याभ्यर्च्य प्रणीतायां सपवित्रायां वरुणं पूजयित्वा सह पवित्रेण नासिकासममुत्थाप्योत्तरतस्सादयन्ति भूर्भुवस्सुवरॐ वरुणोसि घृतव्रतो वारुणमसि इति तमभ्यर्च्य दर्भैः प्रतिच्छाद्याथ व्रीहीन्निर्वपति अमुष्मै वो जुष्टं निर्वपामि इति वा तूष्णीं वा । एवं त्रिस्सकृत्तूष्णीम् ७
तथा तानभ्युक्ष्यावहत्य त्रिष्फलीकृत्य त्रिःप्रक्षाल्य निदधाति । तण्डुलान्वा निर्वपति । तानभ्युक्ष्य त्रिः प्रक्षालयैवं निदधाति । स्थाल्यामपः पयो वानीयाधिश्रित्य तिरःपवित्रं तण्डुलानावपति ८
अथ पक्वमोदनं पायसं वा याचति ९
तमभ्युक्ष्य स्रुवेण प्रणीताजलं निनयति १०
अग्नावधिश्रित्याथाज्यस्थाल्यामाज्यं निरूप्योदीचोऽङ्गारान्निरूह्य व्यन्तान् कृत्वा तेष्वधिश्रित्याभिद्योतनेनाभिद्योत्य द्वे दर्भाग्रे प्रच्छिद्य प्रक्षाल्य प्रत्यस्य पुनरभिद्योत्योभयं त्रिः पर्यग्नि कृत्वा वर्त्म कुर्वन्नुदगुद्वास्य प्रत्यूह्याङ्गारानथैनदुदीचीनाग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूय विस्रस्य पवित्र अद्भिस्संस्पृश्याग्नावनुप्रहरति ११
अथ स्रुवं जुहूं मेक्षणं च सम्मृज्य त्रिरन्तरतस्त्रिर्बाह्यतस्तथा मूलैर्मूलं सम्मृज्याद्भिस्संस्पृश्य पुनर्निष्टप्य निदधाति क्रमेण १२
अथ दर्भानद्भिस्संस्पृश्याग्नावनुप्रहरति १३
पश्चादग्नेर्बर्हिस्तीर्त्वा तत्राज्यं निदधाति चरुमभिचार्योदञ्चमुद्वास्य बर्हिष्यासाद्य प्रतिष्ठितमभिघारयति १४
स्थविष्टो मध्यमो द्राघीयान् दक्षिणतोऽणिष्ठो ह्रसिष्ठ उत्तरत ऊर्ध्वे समिधावादधाति १५
अथाग्निं परिषिञ्चति अदितेऽनुमन्यस्व इति दक्षिणतः प्राचीनम् अनुमतेऽनुमन्यस्व इति पश्चादुदीचीनं सरस्वतेऽनुमन्यस्व इत्युत्तरतः प्राचीनं देव सवितः प्रसुव इति समन्तं प्रदक्षिणम् । समन्तमेव वा तूष्णीं परिषिञ्चति १६
अथाग्निमैन्द्रादिक्रमेणाभ्यर्च्य परिसमिधं शिनष्टि । ब्राह्मणेनानुज्ञातस्स्वाहाकारेणाभ्याधायानूयाजसमिधमिध्मसन्नहनं प्रणीतापात्र निधायाघारावाघारयति प्रजापतये स्वाहा इति मनसोत्तरे परिधिसन्धौ संस्पृश्याक्ष्णया सन्ततम् । इन्द्राय स्वाहा इत्युपांशु दक्षिणे परिधिसन्धौ संस्पृश्याक्ष्णया सन्ततम् १७
अथाज्यभागौ जुहोति अग्नये स्वाहा इत्युत्तरार्धपूर्वार्धे १८
प्रतिमुखं प्रबाहुग्जुहोति सोमाय स्वाहा इति दक्षिणार्धपूर्वार्धेऽथाग्निमुखं जुहोति युक्तः चतस्रः आरभ्य व्याहृत्यन्तं हुत्वाऽथ चरुप्रायश्चित्तं हुत्वा चरुमभिघार्याथाव्रत्यप्रायश्चित्तं कृत्वा स्रुवेण जुह्वामुपस्तीर्य मेक्षणेन चरुमालोड्य पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति प्रत्यनक्ति पुरस्तात् स्रुवाहुतिं हुत्वा यथोक्तं पक्वाज्जुहोत्युपरिष्टात् स्रुवाहुतिं च १९
अथोपस्तीर्योत्तरार्धात् स्विष्टकृत्सकृदवद्यति द्विरभिघारयति न इत्यनक्त्यन्तःपरिधि सह मेक्षणेन सादयित्वा यथोक्तमाज्याहुतीर्जुहोति २०
अथ पुरस्तात्स्रुवाहुतिं स्विष्टकृतमुपरिष्टात् स्रुवाहुतिं च हुत्वाऽप उपस्पृश्य मेक्षणमग्नौ प्रहृत्याथैनत्संस्रावेणाभिजुहोति स्रुक्स्रुवाभ्याम् २१
जुहूसङ्क्षालनमन्तःपरिधि निनयति २२
निर्णिज्य स्रुचं निष्टप्याद्भिः पूरयित्वा बहिःपरिधि निनयति २३
स्थालीपाकेऽन्तःपरिधि वहिःपरिधि समन्त्रकम् २४
अथानूयाजसभिधमाधायेध्मसंहनमद्भिस्संस्पृश्याग्नावनुप्रहरति २५
अथ जयानभ्यातानान् राष्ट्रभृतोऽमात्यहोमांश्च हुत्वाऽथ चतुर्गृहीतेन स्त्रुवेण वा प्राजापत्यं हुत्वा इध्मप्रव्रश्चनान्यभ्याधाय प्रायश्चित्तानि सौविष्टकृतं च हुत्वा स्त्रुवेण परिधीननक्ति २६
अथ परिस्तरान्त्समुल्लिप्याज्यस्थाल्यां प्रस्तरवद्बर्हिरक्त्वा तृणं प्रच्छाद्याग्नावनुप्रहरति २७
अप उपस्पृश्य तृणं च मध्यमं परिधिमनुप्रहरति २८
अथेतरावुपसमस्यत्यूर्ध्वसमिधौ च २९
अथैनान् संस्रावेणाभिजुहोति वसुभ्यः इति ३०
अत्र बलिं प्राशनं चान्यत्रोपनयनादन्यानि तत्तदुक्तकर्माणि ३१
अथाग्निं परिषिञ्चति अन्वमँस्थाः प्रासावीः इति ३२
वरुणमुद्वास्य बर्हिषि दिशो व्युन्नीय प्राच्याम् इत्यादिना स्वयं च प्रोक्ष्य ब्रह्मणे वरं दत्वा चरुशेषं सघृतं वा ब्रह्माणं विसृजति ३३
स्थालीपाकनक्षत्रहोमायुष्यहोमादिषु प्राशनमुक्तम् ३४
पञ्चावत्तिनां पञ्चावदानं मध्यात् पूर्वार्धादपरार्धादवद्यति ३५
स्विष्टकृत उत्तरार्धात् द्विरवद्यति ३६
शेषं पूर्ववत् ३७
अथ बहुदेवत्ये द्वितीयमवदानमपरार्धादवदाय पूर्वार्धादवद्यति । सर्वमेवमाऽन्तात् ३८
अथ स्विष्टकृत उपस्तीर्य यावती देवतासङ्ख्या तावदवदानं सकृत्सकृत् । शेषं समानम् ३९
तथा मध्यादपरार्धात्पूर्वार्धादवद्यति ४०
स्विष्टकृतो द्विर्द्विरवद्यति । शेषं समानं भवति ४१
सर्वन्यायं ज्ञात्वाचार्यमुखेन कुर्यात् ४२
इति बोधायनीये गृह्यशेषसूत्रे पञ्चमप्रश्ने प्रथमोऽध्यायः