२१

अथ चतुर्थप्रश्ने एकविंशोऽध्यायः

अथाशनिपाते भूमिं जानुदघ्नमुद्धृत्य अद्भिः प्रोक्ष्यपत्रावकां च संस्थाप्य ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वा खननात्पश्चात् स्थण्डिलं कृत्वा परिधानप्रभृत्यग्निमुखपर्यन्तं कृत्वा शं न इन्द्राग्नी इति त्रिभिर्मन्त्रैराज्याहुतीर्हुत्वा स प्रत्नथा सहसा जायमानः इति सूक्तेन चरुणा जुहोति १
स्वस्ति नो मिमीताम् इति प्रतिपद्य स्वस्ति नो बृहस्पतिर्दधातु इति स्वस्त्यात्रेयं जपित्वा ब्राह्मणान् सम्पूज्याशिषो वाचयित्वाचार्याय दक्षिणां ददाति २
चरुं विद्यावन्तं ब्राह्मणं भोजयेत् ३
दग्धभूमिसमं ब्राह्मणाय दद्यात् जीवनागन्धमियदिति स्वर्णं ददातीत्याह भगवान् बोधायनः ४

इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने एकविंशोऽध्यायः