२०

अथ चतुर्थप्रश्ने विंशोऽध्यायः

अथातो ग्रामस्योत्पातशान्तिं व्याख्यास्यामः अग्निदाहे व्याघ्रादिभिरभिभूते सृगालपीडने ग्रामादन्तश्चण्डालाध्यवसिते ग्रामस्य स्थूणावरोहणे मधुन उपवेशने वल्मीकपुष्करोत्पन्ने देवगात्रस्वेदकम्पने ज्वराभिभूते बहुब्राह्मणमरणे ग्राममध्ये श्मशाने वा दस्युभिश्चापि पीडिते रात्रौ तटाकसेतुभङ्गे जले विवर्णे वा स्वन्तस्थेऽशनिपाते चिरकालशून्यग्रामप्रवेशे तेष्वन्येषु चोत्पातेषु शान्तिं कुर्यात् १
शुभवारे शुभनक्षत्रे शुभलग्ने विष्णोस्स्नापनार्थं महादेवाभिषेकार्थं द्वौ द्वौ ब्राह्मणौ कल्पयित्वा नवग्रहशान्त्यर्थं चतुरो ब्राह्मणांस्तयैव सङ्ख्यया ग्रामशान्तिहोमार्थं कल्पयित्वाऽथ ग्रामशान्तिहोमे ग्रामस्योत्तरपूर्वदेशे देवागारे चतुष्पथे वा शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य तिलसर्षपलाजैर्गन्धपुष्पाक्षतैरवकीर्य स्थण्डिलं कल्पयित्वा कुम्भस्थापनं कृत्वाऽग्निमुपसमाधाय सम्परिस्तीर्याप्रणीताभ्यः कृत्वोपोत्थायाग्रेणाग्निं देवताश्चाबाहयति व्याहृतीभिः यज्ञपुरुषमावाहयामि देवस्य दक्षिणतो ब्रह्मणमावाहयामि उत्तरतः त्रियम्बकमावाहयामि देवस्याग्ने वास्तुपुरुषमावाहयामि इन्द्रादिदेवताश्चावाहयामि इत्यावाह्य पुरुषसूक्तेन विष्णुमभ्यर्च्य ब्रह्मसूक्तेन चतुर्मुखं रुद्रसूक्तेन त्रियम्बकं चाभ्यर्च्यान्येषां देवानमावाहनादिक्रमेण स्वैस्स्वैर्नामभिरभ्यर्च्यापरेणाग्निं प्राङ्मुख उपविश्याग्निमुखात्कृत्वा पक्वाज्जुहोति वास्तोष्पते प्रति जानीह्यस्मान् इति पुरोनुवाक्यामनूच्य वास्तोष्पते शग्मया संसदा ते इति याज्यया जुहोति २
तेनैव मन्त्रेन शमीमयीं समिधमष्टोत्तरसहस्रं जुहुयात् । वास्तोष्पते प्रतरणो न एधि इत्यष्टोत्तरसहस्रमन्नाहुतीर्जुहुयात् ३
अमविहा वास्तोष्पते इत्यष्टोत्तरसहस्रमाज्याहुतीर्जुहुयात् ४ मृगारेष्टिवत् अंहोमुचे इत्यभिज्ञैः प्रत्यृचमाज्याहुतीर्हुत्वा या वामिन्द्रावरुणा इति द्वादशाहुतीर्हुत्वा पवमानस्सुवर्जनः इत्येतेनानुवाकेन प्रत्यृचमाज्याहुतीर्हुत्वा पुरुषसूक्तेन ब्रह्मसूक्तेन रुद्रसूक्तेन च प्रत्यृचमाज्याहुतीर्हुत्वा यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्यां अग्निरायुष्मान् इति पञ्चभिः अग्ने नय सुपथा इति षड्भिः योऽस्य कौष्ठ्य इति एष ते निरृते भागः इति इमं मे वरुण तत्त्वा यामि इति द्वाभ्यां समुद्राय त्वा वाताय स्वाहा इति त्रयोदशाहुतीः आप्यायस्व सं ते पयांसि इति द्वाभ्यां ईशानस्सर्वविद्यानाम् इति त्रियम्बकं यजामहे इति प्रत्येकमाज्याहुतीर्हुत्वा आसत्येन इत्यादि केतुं कृण्वन्नकेतवे इत्यन्तं नवग्रहमन्त्रेणाज्याहुतीर्हुत्वा स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ५ अथाग्रेणाग्निं शमीपत्रेषु हुतशेषं निदधाति यो रुद्रो अग्नौ इति ६
अथ देवताभ्यो हविर्निवेदयेत् ७
अथोपतिष्ठते हेतयो नाम स्थ इति ८
यथाक्रमं दिश उपस्थाय पुण्याहं वाचयित्वा उदकुम्भं चान्वारभ्य पञ्चशान्तिं च जपित्वा हुतशेषमाज्यशेषं च पूर्णकुम्भे निक्षिप्य उदुम्बरशाखया शमीशाखया दर्भमुष्टिना वा शिवं शिवं शं नो देवीरभिष्टये इति च शाकुनेन सूक्तेन ग्रामं त्रिः प्रदक्षिणं परिषिच्य ब्राह्मणेभ्यो भूरिदक्षिणां दत्वैवं सप्ताहं द्वादशाहं वा कुर्यात्समस्तोत्पातशान्तिरित्याह भगवान् बोधायनः ९

इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने विंशोऽध्यायः