अथ चतुर्थप्रश्ने एकोनविंशोऽध्यायः
अथातो नान्दीमुखं व्याख्यास्यामः आदित एव द्वौ विप्रौ निमन्त्र्य चतुरवरांश्च पित्रर्थानथ श्मस्रुकर्माभ्यञ्जनस्नानैर्यथोपपादं सम्पूज्याग्निमुपसमाधाय सम्परिस्तीर्याज्यं विलाप्योत्पूय दध्ना घृतेन संयुत्य स्रुवं सम्मृज्य देवार्थौ विप्रावुपवेश्यालङ्कृत्यानुदेश्य द्विःपवित्र एव यवोदकं निधाय पुष्पफलाक्षतमिश्रं भोजनस्थानेष्वासनेषु यवान् सिकताश्च सम्प्रकीर्य पित्रर्थानुपवेश्य तेषां सपवित्रेषु पाणिषु नान्दीमुखाः पितरः प्रीयन्ताम् इत्यनेन मन्त्रेण पात्रान्तरेणोपहत्य यवोदकं दत्वा द्विरथालङ्कृत्यैवमेव दत्वाऽग्नौकरणमनुज्ञाप्यालङ्कृत्य पृषदाज्यात् स्रुवेणोपहत्य नान्दीमुखेभ्यः पितृभ्यस्स्वाहा इत्येतावदग्नौ कृत्वाऽन्नमुपस्तीर्णाभिघारितं पात्रेषूद्धृत्य पृषदाज्येन संसृज्य दर्भेषु सादयित्वा दर्भैः प्रतिच्छाद्य नान्दीमुखार्थानां पितॄणां क्षेष्ठा अमुत्रामुष्मिन् लोके इति मन्त्रमूह्याभिमृश्य विप्रेभ्यो द्विरुपस्तीर्याभिमृष्टस्यान्नस्य द्विरवदाय द्विरभिघार्य यथावद्भोजयेत् १
पितृसामान्यवाचिस्वधायुक्तानि ब्रह्माण्यभिश्राव्य भुक्तवत्स्वाचान्तेषूपलिप्याशयेषु दध्योदनं सम्प्रकीर्य सङ्क्षालनेन प्रदक्षिणं द्विःपरिषिच्य पूर्ववद्यबोदकं दत्वा दक्षिणां प्रदाय नान्दीमुखाः पितरः प्रीयन्ताम् इति वाचयित्वाऽभिवाद्य स्वधायै स्थाने सर्वैस्समानं दक्षिणं जानुं निपात्य सव्यमुद्धृत्य जपति इडा देवहूः इत्यान्तादनुवाकस्य जपित्वा नान्दीमुखाः पितरः प्रीयन्ताम् इत्यपो निनीय ब्राह्मणानुत्थाप्य प्रसाद्य संसाद्य प्रदक्षिणीकृत्य शेषमनुज्ञाप्य देवतां च विसृज्य दक्षिणेनाग्निं प्रागग्रेषु दर्भेषु नान्दीमुखेभ्यः पितृभ्यो दद्यात् नान्दीमुखेभ्यः पितृभ्यस्स्वाहा इति सङ्क्षालनेन प्रदक्षिणं परिषिच्य ऊर्जं वहन्तीः इति भाविजयाद्यर्थेन कालहोमान् पृषदाज्येन पूर्ववद्धोमं केचिदिच्छन्तीत्युक्तमेतन्नान्दीमुखम् २
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने एकोनविंशोऽध्यायः