अथ चतुर्थप्रश्ने अष्टादशोऽध्यायः
अथातोऽङ्कुरार्पणविधिं व्याख्यास्यामः ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वा शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरश्रं स्तण्डिलमुपलिप्याक्षतान् सम्प्रकीर्याद्भिरभ्युक्ष्य पञ्च पालिकास्सौवर्णा राजतास्ताम्रा मृण्मयीर्वा यथासम्भवं गृह्णाति १
मध्ये चतुर्मुखं विन्द्यात् पूर्वे वज्रिणमेव च दक्षिणे तु यम विन्द्यात् पश्चिमे वरुणं तथा उत्तरे शशिनं विन्द्यात्पालिकास्थापनं क्रमात् २
वल्मीकमृत्तिकां हृत्वा गोमयं च तथैव च एतानि प्रक्षिपेत्तासु पालिकासु यथाक्रमम् ३
दूर्वामश्वत्थपत्रं च शिरीषं बिल्वपत्रकम् तासां मूलेषु बध्नीयाच्छ्वेतसूत्रेण वेष्टयेत् ४
मध्यमायां व्याहृतीभिर्ब्रह्माणमावाहयति ॐ भूः ब्रह्माणमावाहयाम्यॐ भुवः प्रजापतिमावाहयाम्यॐ सुवः चतुर्मुखमावाहयाम्यॐ भूर्भुवस्सुवः हिरण्यगर्भमावाहयामि इति । एताभिरेव प्राच्याम् इन्द्रं वज्रिणं शचीपतिं शतक्रतुम् इति । एताभिरेव दक्षिणस्याम् यमं वैवस्वतं पितृपतिं धर्मराजम् इति । एताभिरेव प्रतीच्याम् प्रचेतसं सुरूपिणमपाम्पतिम् इति । एताभिरेवोदीच्याम् शशिनं निशाकरं चन्द्रं सोमम् इति ५
अथैतान् स्नापयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वाऽथैनान् गन्धपुष्पधूपदीपैरभ्यर्चयति अमुष्मै नमोऽमुष्मै नमः इति ६
अथैनानुपतिष्ठते दिशां पतीन् नमस्यामि सर्वकामफलप्रदान् कुर्वन्तु सफलं कर्म कुर्वन्तु सततं शुभम् इति ७
व्रीहियवमाषतिलमुद्गसर्षपान् मिश्रीकृत्य क्षीरेण प्रक्षाल्यौषधिसूक्तेन या जाताः इत्यनुवाकेनाभिमन्त्र्य यथाक्रमं निवपति ब्रह्म जज्ञानं पिता विराजाम् इति द्वाभ्यां मध्यमायां यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्यां प्राच्यां योऽस्य कौष्ठ्य यमं गाय इति द्वाभ्यां दक्षिणस्यां इमं मे वरुण तत्त्वा यामि इति द्वाभ्यां प्रतीच्यां सोमो धेनुम् आप्यायस्व इति द्वाभ्यामुत्तरस्याम् ८
यथाक्रमं शुद्धाभिस्सिकताभिः प्रच्छादयेत् ९
पञ्चगव्येन यथाक्रमं सेचयेत् १०
प्रणवेनैव सापिधानं कृत्वा यावत्कर्म तावत् सुरक्षितं गोपायेत् १२
समाप्ते कर्मणि ब्राह्मणान् पञ्च भोजयेत् १२
व्याहृतीभिः देवता यथाक्रममुद्वासयेत् १३
आसप्तमात्प्रजाकाम आषष्ठात्पुत्रनाशनम् पञ्चमे भक्तिकामानां विष्णोस्सर्वात्मनस्तथा १४
चतुर्थे चाङ्कुरं विद्यात्पापीयान् जायते तु सः त्रियहे सर्वकामानां सद्यो वाऽप्यङ्कुरार्पणम् १५
इत्याह भगवान् बोधायनः १६
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने अष्टादशोऽध्यायः