१७

अथ चतुर्थप्रश्ने सप्तदशोऽध्यायः

अथातस्सम्प्रवक्ष्यामि संस्कारविधिमुत्तमन् समाहितानां युक्तानां यतीनां च महात्मनाम् १
शुचौ देशे तु सावित्र्या देह प्रक्षाल्य यत्नतः अलङ्कृत्य च गायत्र्या गन्धैर्माल्यैः पृथक्पृथक् २ वहन्ति ब्राह्मणा ये वै शुचयस्सर्व एव ते तेषां तु वहतां सम्यक्सद्यश्शौचं विधीयते ३
प्रक्षालनादि तत्कर्म ये कुर्वन्ति महीयसाम् तेषामपि तथा सद्यश्शौचमेव विधीयते ४
पुत्रो वा सन्निकृष्टो वा शुचौ देशे निधाय तम् उपावरोहमन्त्रेण तस्याग्नीनवरोप्य तु ५
तूष्णीं सम्मार्जनं कृत्वा व्याहृतीभिश्च सप्तभिः प्रोक्ष्य काष्ठं च तद्देहं निधाय तु समन्त्रकम् ६
विष्णो हव्यं रक्षस्वेति मुखे जलपवित्रकम् पवित्रं तेति मन्त्रेण निदधाति तथा पुनः ७
त्रिदण्डं दक्षिणे हस्ते वैष्णव्यर्चा निधाय च उदरे च तथा पात्रं सावित्र्या निदधाति वै ८
यदस्य पारे रजसस्सव्ये शिक्यं निधाय च गुह्ये कमण्डलुं चैव भूमिर्भूमिमगादिति ९
पितृमेधप्रयोगेण दहेदग्निभिरेव हि संस्कर्तुश्च तथा तस्य नाशौचं नोदकक्रिया १०
एकोद्दिष्टं न कुर्वीत सन्न्यस्तानां कदाचन अहन्येकादशे प्राप्ते पार्वणं तु विधियते ११ द्वादश्यामह्नि वा पुण्ये नारायणबलिर्भवेत् सर्वं नारायणोद्देशमेकोद्दिष्टवदाचरेत् १२
अनाहिताग्निनां चैव सन्न्यस्तानां महात्मनाम् अपि होतृविधानेन गायत्र्या प्रणवेन वा १३ अप्राकृतानां महतां ब्रह्मनिष्ठमनस्विनाम् तेषां तु स्वननं कार्यमिति प्राहुर्मनीषिणः १४
तिसृभिर्व्याहृतीभिस्तु खात्वा दण्डप्रमाणतः त्रिदण्डादीन् यथास्थानममन्त्रैस्स्थापयेद्बुधः १५ प्रच्छादयेदसंस्पृष्टं सृगालश्वापदादिभिः श्वादयो यदि खादन्ति महान् दोषो भविष्यति १६
तस्माद्भूमिं भृशं खात्वा सम्यक्प्रच्छादयेद्यतीन् सर्वसङ्गनिवृत्तस्य ध्यानयोगरतस्य च १७
न तस्य दहनं कुर्यान्नाशौचं नोदकक्रिया निषेकाद्याश्श्मशानान्तास्सत्क्रिया ब्राह्मणाश्रिताः १८
तस्माद्यत्नेन संस्कारः कर्तव्यो गृहमेधिभिः ये वहन्ति महात्मानं स्पृष्ट्वा दृष्ट्वा द्विजातयः १९ हयमेधफलं तेषामस्तीत्येवं विदर्बुधाः २०

इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने सप्तदशोऽध्यायः