१६

अथ चतुर्थप्रश्ने षोडशोऽध्यायः

अथातः कपिलसन्न्यासविधिं व्याख्यास्यामः अनग्निकस्तु मुण्डी शिखी वाऽहोरात्रोपोषितः स्नात्वाऽप आचम्याप एव पाणिनाऽप्स्वाहुती जुहोति आपो वै सर्वा देवतास्स्वाहा इति १
पुत्रेषणायाश्च वित्तेषणायाश्च लोकेषणायाश्च सर्वभूतेभ्यश्च व्युत्थितोऽहं स्वाहा इति २
सन्न्यस्तं मया सन्न्यस्तं मया सन्न्यस्तं मया इति त्रिरुपांशूक्त्वा त्रिरुच्चैः त्रिषत्या हि देवाः इति विज्ञायते ३
अभयं सर्वभूतेभ्यो मत्तस्स्वाहा इति दण्डात् गृहीत्वा जलपवित्रं पवित्रम् इति समादाय पुत्रमित्रसुहृद्बन्धुज्ञातिसन्निधौ त्यक्त्वाऽथ ग्रामादाहृत्यैकपात्रमुदकेनाप्लाव्य सकृदल्पेन भुञ्जीत ४
न केन चित्सह सम्भाषेत ५
न किञ्चन याचेत ६
पर्वतगुहानदीपुलिनशून्यागारे देवतायतने बिलदर्योर्निवसेत् ७
स्वयं पतितं प्रक्षाल्य जीवितमुक्तम् ८ जीर्णमानीयाहतानि दृढान्यजिनानि यदर्थं बिभृयात् ९ सूर्योदयहीनयाचितेन कार्यं कुर्वीत १०
व्रतं स्नानसमर्थो न लभेत् ११
अथ प्रक्षाल्य जलार्द्रेण कर्पटेन सशि स्कजलाकर्षणं कृत्वाऽन्तर्वासाः परितस्सन्ध्यामुपासीत १२ नित्यं मध्याह्ने प्रातस्स्नायीतेत्याह भगवान् बोधायनः १३

इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने षोडशोऽध्यायः