अथ चतुर्थप्रश्ने पञ्चदशोऽध्यायः
अथ यद्याहिताग्निर्द्वे भार्ये विन्देत प्राक्संयोगान्म्रियेत कथं तर्हि कुर्यादिति १
औपासनं सम्परिस्तीर्याज्यं बिलाप्योत्पूय स्रुक्स्रुवं निष्टप्य सम्मृज्य स्रुचि चतुर्गृहीतं गृहीत्वा समिद्वत्यग्नौ परिश्रिते पूर्णाहुतिं जुहोति समितं सङ्कल्पेथाम् इति मिन्दाहुती व्याहृतीभिश्च हुत्वा तमग्निं अयं ते योनिः इति समिधि समारोप्य गार्हपत्ये समिधमादधाति भवतं नस्समनसौ इति । गार्हपत्य आज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य सम्मृज्य स्रुचि चतुर्गृहीतं गृहीत्वा गार्हपत्ये जुहोति अग्नावग्निश्चरति प्रविष्टः इति २
अपरं चतुर्गृहीतं गृहीत्वा गार्हपत्य एव जुहोति चित्तिस्स्रुक् इति ३
अथ गार्हपत्ये स्रुवाहुतीर्जुहोति ब्राह्मण एकहोता इति दशभिः ४
अथ प्राचीनावीतं कृत्वाऽन्वाहार्यपचने जुहोति ये समानाः ये सजाताः इति द्वाभ्याम् ५
अथान्वाहार्यपचन एव स्रुवाहुतीर्जुहोति अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमस्स्वाहा इति ६
अथ यज्ञोपवीतं कृत्वा द्वादशगृहीतेन स्रुचं पूरयित्वा पुरुषसूक्तेन मनसाऽनुद्रत्याहवनीये जुहोति ७
अथ स्रुवाहुतीर्जुहोति अग्नये विविचये स्वाहा अग्नये व्रतपतये स्वाहा अग्नये पवमानाय स्वाहा अग्नये पावकाय स्वाहा अग्नये शुचये स्वाहा अग्नये पथिकृते स्वाहा अग्नये तन्तुमते स्वाहा अग्नये वैश्वानराय स्वाहा इति ८
अथ स्रुचि चतुर्गृहीतं गृहीत्वा मनस्वतीं जुहोति मनो ज्योतिर्जुषतामाज्यं विच्छिन्नं यज्ञं समिमं दधातु । या इष्टा उषसो निम्रचश्च तास्सन्दधामि हविषा घृतेन स्वाहा इति ९
अत ऊर्ध्वं पैतृमेधिकं कर्म प्रतिपद्यते १०
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने पञ्चदशोऽध्यायः