अथ चतुर्थप्रश्ने चतुर्दशोऽध्यायः
अथ गृहस्थस्यौपासनं विच्छिद्येत प्राणेषूत्क्रान्तेषूभयोः श्रोत्रिययोर्वचनादुद्धरेत् । श्रोत्रियागाराद्वाहृत्य व्याहृतीभिर्नियुप्योपसमाधाय पर्युक्ष्य परिस्तीर्याज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य सम्मृत्य स्रुचि चतुर्गृहीतं गृहीत्वाऽन्वारब्धो यजमानो जुहोति सप्त ते अग्ने सप्तव्याहृतिभिश्च पूर्वं देवा अपरेण प्राणापानौ इति द्वाभ्यां मा त्वा वृक्षौ सम्बाधिष्टाम् मा त्वा वृक्षौ सम्बाधेथाम् इति द्वाभ्याम् अग्नेऽभ्यावर्तिन् अग्ने अङ्गिरः इति द्वाभ्यामेकैकं प्रति चतुर्गृहीतं गृहीत्वा जुहोति १
न च ब्रह्मा न च प्रणीता न चरुर्न च स्विष्टकृतम् २
अत ऊर्ध्वं पैतृमेधिकं कर्म प्रतिपद्यते ३
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने चतुर्दशोऽध्यायः