अथ चतुर्थप्रश्ने त्रयोदशोऽध्यायः
अथ लौकिकोपासनग्रहणधारणोपावरोहणविधिं व्याख्यास्यामः त्रिविधं समारोपणमात्मन्यरण्योस्समिधीति १
समिधि समारोपयति पालाशीमाश्वत्थीं खादिरीमौदुम्बरीं शमीमयीं वा समिधमादाय समारोपयति अयं ते योनिरृत्वियः इति २
अरण्योर्वा समारोप्य मथित्वा जुहुयात् ३
अपि वात्मनि समारोपणं भवति या ते अग्ने यज्ञिया तनूः इति ४
अथैनमुपावरोहयति उपावरोह जातवेदः इति ५
यत्र गच्छेत्तत्र नो हरेत्तत्र प्राप्य लौकिकमग्निमाहृत्य न्युप्योपसमाधाय तां समिधमादधाति यस्यात्मनि समारूढो भवति आजुह्वानः उद्बुध्यस्वाग्ने इति द्वाभ्याम् ६
अथाग्निं परिचरति व्रीहिभिर्यवैर्वा ७
यवैर्ग्रामकामस्य तण्डुलैरोजस्कामस्य पयसा पशुकामस्य दध्नेन्द्रियकामस्याज्येन तेजस्कामस्य ८
अथातिपन्नाः प्रतिजुहोति ९
प्रसिद्धमग्निपरिचरणम् १०
प्रसिद्धं दर्शपूर्णमासाभ्यां यजनम् ११
प्रसिद्धः पञ्चानां महायज्ञानामनुप्रयोगः १२
एतदेव विधानमहरहरध्वनि वर्तते १३
लौकिको व्याख्यातः १४
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने त्रयोदशोऽध्यायः