१२

अथ चतुर्थप्रश्ने द्वादशोऽध्यायः

अथ यद्यग्निविमोकमीक्षेताग्निमुपसमाधाय सम्परिस्तीर्याज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य सम्मृज्य स्रुचि चतुर्गृहीतं गृहीत्वा द्वयोर्भार्ययोरन्वारब्ध योर्यजमानो जुहोति इमं स्तनमूर्जस्वन्तं धयापां प्रप्यातमग्ने सरिरस्य मध्ये । उत्सञ्जुषस्व मधुमन्तमूर्व सम्मुद्रियं सदनमाविशस्व स्वाहा इत्यग्निविमोकं हुत्वा तमनलं विभजेत् १
पुनस्संयोगो न भवति विभक्तं न हि संसृजेत् इति स्मरणात् २
पूर्वस्मिन्नग्नौ यदि विवहेत् स हि साधारणो भवति न तत्र विभाग एकत्वादग्नेरित्याह भगवान् बोधायनः ३

इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने द्वादशोऽध्यायः