अथ चतुर्थप्रश्ने एकादशोऽध्यायः
अथ वै भवति जायमानो वै ब्राह्मणस्त्रिभिरृणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः इति प्रजातन्तु मा व्यवच्छेत्सीः इत्येतस्माद्ब्राह्मणादाहिताग्नेर्दशवर्षाणामूर्ध्वं यदि प्रजा नोत्पद्येत कथं तत्र कुर्यादिति १
पुनरेव कुमारीं संस्कृत्य दशमेऽहन्येकादशाहे द्वादशाहे वाऽरण्योरग्नीन् समारोप्योदवसाय मथित्वाऽग्नीत् विहृत्योद्वासन्येष्येद्वा २
तदानीमेवारण्योरग्नीन् समारोप्यौपासने ब्रह्मौदनं श्रपयित्वोपवसथहविःप्रभृति सिद्धमप्न्याधेयं कुर्वन्ति ३
तस्मिन् संस्थिते पवित्रेष्ट्या यजेत ४
तस्यां संस्थितायां तन्तुमतीं निर्वपेत् ५
तस्यां संस्थितायां त्रैधातवीयां निर्वपेत् ६
अपि वैन्द्राग्नेन पशुना यजेत । पुनराधेयं वा कुर्यात् ७
अथ यद्येको बह्वीर्जायाः प्रयुञ्जान एवमेवैतत्कुर्यात् तस्मादेको बह्वीर्जाया विन्दते इति ब्राह्मणन् ८
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने एकादशोऽध्यायः