अथ तृतीयप्रश्ने अष्टादशोऽध्यायः
अथ गृहस्थस्तु द्वे भार्ये विन्देत कथं तत्र कुर्यादिति १
यस्मिन् काले विन्देतोभावाग्नी परिचरेत् २
अपराग्निमुपसमाधाय सम्परिस्तीर्याज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य सम्मृज्य स्रुचि चतुर्गृहीतं गृहीत्वाऽन्वारब्धायां यजमानो जुहोति नमस्त ऋषे गद । अव्यथायै त्वा स्वधायै त्वा । मा न इन्द्राभितस्त्वदृष्वारिष्टासः । एवाब्रह्मन् तवेदस्तु स्वाहा इति ३
अथ समारोपयति अयं ते योनिरृत्वियः इति ४
अथ पूर्वाग्निमुपसमाधाय आजुह्वानः उद्बुध्यस्वाग्रे इति समिधमाधाय सम्परिस्तीर्य आज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य सम्मृज्य गृहीतं गृहीत्वा द्वयोर्भार्ययोरन्वारब्धयोर्यजमानो जुहोति यो ब्रह्मा ब्रह्मणः इत्यान्तेन सूक्तेनैकैकं चतुर्गृहीतं गृहीत्वा जुहोति ५
प्रसिद्धमग्निमुखात्कृत्वा पक्वाज्जुहोति समितं सङ्कल्पेथाम् इति पुरोनुवाक्यामनूच्य अग्ने पुरीष्य इति याज्यया जुहोति ६
अथाज्याहुतीरुपजुहोति पुरीष्यस्त्वमग्ने इत्यान्तादनुवाकस्य । स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ७
अथाग्रेणाग्निं दर्भस्तम्बेषु हुतशेषं निदधाति ब्रह्मजज्ञानं पिता विराजां इति द्वाभ्याम् ८
प्रसिद्धमौपासने पार्वणानि कुर्यात्सन्तिष्ठत औपासनतन्त्रः ९
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने दशमोऽध्यायः