०९

अथ चतुर्थप्रश्ने नवमोऽध्यायः

कथमु खल्वनाहिताग्नेर्दर्शपूर्णमासौ भवत इति १ पौर्णमास्याममावास्यायामिध्माबर्हिस्सन्नह्योपवसथस्य रूपं कृत्वोपवसति २
अथ श्वोभूतेऽग्निमुपसमाधाय सम्परिस्तीर्य दक्षिणतो ब्राह्मणमुपवेशयति ३
उत्तरत उदपात्रमिति निधाय जघनेनाग्निं कृष्णाजिने व्रीहीन्निर्वपति ४
अथ तिरःपवित्रं स्थाल्यामपः पयो वानीयाधिशृत्य पर्यग्नि कृत्वा स्रुक्स्रुवं मेक्षणमिति सम्मृज्याथैतं चरुं श्रपयित्वाऽभिघार्योदञ्चमुद्वास्य प्रतिष्ठितमभिघारयति ५ परिधानप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति अग्निर्मूर्धा भुवः इति द्वाभ्याम् ६
चतुरवत्तं पुरस्तादुपस्तरणं पूर्वार्धादपरार्धादवदानमभिघारणं मध्यात्पूर्वार्धादपरार्धादवदानं पञ्चावत्तिनामभिघारणं प्रत्यञ्जनम् ७
अथ पुरस्तात्स्विष्टकृतः ८ पौर्णमास्यां ऋषभं वाजिनं वयम् इति । अमावास्यायां अमावास्या सुभगा इत्याज्याहुती हव्यवाहं स्विष्टम् इति स्विष्टकृतं हुत्वा मेक्षणमभ्याधाय संस्रावेणाभिहुत्वा स्रुचाऽद्भिरन्तःपरिधि निनयति वैश्वानरे हविरिदं जुहोमि इति ९
स्रुचं प्रक्षाल्य निष्टप्याद्भिः पूरयित्वा बहिःपरिधि निनयति इमं समुद्रं शतधारम् इति । जयप्रभृति सिद्धमाधेनुवरप्रदानात् १०
अथ पक्वादुपादाय प्राश्नाति आयुरसि इति ११
प्राश्याप आचम्य जठरमभिमृशति यत इन्द्रभयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम् १२ प्रथमे स्थालीपाक आज्यं संस्कृत्य कूश्माण्डैर्जुहुयात् कर्मादिवेतैर्जुहुयात् पूतो देवलोकान् समश्नुते इति ब्राह्मणम् १३

इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने नवमोऽध्यायः