०८

अथ चतुर्थप्रश्ने अष्टमोऽध्यायः

अथ वै भवति आपो वा इदमग्रे सलिलमासीत्तस्मिन् प्रजापतिर्वायुर्भूत्वाऽचरत्स इमामपश्यत्तां वराहो भूत्वाऽहरत्तां विश्वकर्मा भूत्वा व्यमार्ट् साऽप्रथत सा पृथिव्यभवत् तत्पृथिव्यै पृथिवित्वं तस्यामश्राम्यत् इति तदु हैक औपासनमेवोपासते स्त्रिया एव संस्कारार्थमौपासनो नित्यो धार्योऽनुगतो मन्थ्यः श्रोत्रियागाराद्वाऽऽहार्यो द्वादशाहं विच्छिन्नः पुनराधेयोऽथ यदि द्वादशाहं विच्छिन्नः पुनराधेयस्स्याद्या प्रकृतिस्तत आहरणमित्युक्तमेतत्सन्तिष्ठते १
अथ गृहस्थस्यौपासनम् षण्मासान्नाजुहवुर्यथोपपादमाहृत्याग्निं प्रतिष्ठाप्य परिस्तीर्य द्वादशाहप्रायश्चित्तं हुत्वा तदानीमेव सम्परिस्तीर्याऽप्रणीताभ्याः कृत्वा चतुश्शरावमोदनं श्रपयित्वाऽभिघार्योदञ्चमुद्वास्य प्रतिष्ठितमभिघार्य परिधानप्रभृत्याग्निमुखात्कृत्वा मेक्षणेनोपघातं पक्वाज्जुहोति अग्नये स्वाहा सोमाय स्वाहा अग्नयेऽन्नवते स्वाहा अग्नयेऽन्नादाय स्वाहा अग्नयेऽन्नपतये स्वाहा अग्नये पवमानाय स्वाहा अग्नये पावकाय स्वाहा अग्नये शुचये स्वाहा अग्नये ज्योतिष्मते स्वाहा अग्नये व्रतपयते स्वाहा अग्नये पथिकृते स्वाहा अग्नये तन्तुमते स्वाहा अग्नये वैश्वानराय स्वाहा सूर्याय स्वाहा प्रजापतये स्वाहा ब्रह्मणे स्वाहा भूस्स्वाहा भुवस्स्वाहा सुवस्स्वाहा भूर्भुवस्सुवस्स्वाहा । अग्नये स्विष्टकृते स्वाहा इत्युत्तरार्धपूर्वार्धे २
तूष्णीं मेक्षणमभ्याधाय जयप्रभृति सिद्धमाधेनुवरप्रदानात् ३
अथास्तमित आदित्ये व्रीहिभिर्यवैर्वा हस्तेनैते आहुती जुहोति अग्नये स्वाहा प्रजापतये स्वाहा इति सायं सूर्याय स्वाहा प्रजापतये स्वाहा इति प्रातरप्यग्निहोत्रहविषामन्यतमेन जुहुयात् ४
पर्वणि पर्वणि चाग्नेयस्थालीपाकेन यजेत ५
उपवास एव कालान्तरे भोजनमतृप्तिश्चान्नस्य च ६
एवमेव सायंहोमेन प्रतिपद्यते सन्तिष्ठत औपासनतन्त्रम् ७

इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने अष्टमोऽध्यायः