०७

अथ चतुर्थप्रश्ने सप्तमोऽध्यायः

अथात आचमनविधिं व्याख्यास्यामः प्राङ्मुख उदङ्मुखो वा बद्धशिखो यज्ञोपवीती नोष्णाभिर्न क्षाराभिर्न विवर्णाभिर्न दुर्गन्धरसाभिः न सफेनाभिर्न चैकहस्ताभिर्न दूषिताभिर्न बहिर्जानुभिर्न विरलङ्गुलीभिर्न बुद्बुदाभिर्न तिष्ठन्न हसन् न जल्पन् न विलोकयन्न प्रह्वो न प्रणतो न रोचयन् १
ब्राह्मणस्य दक्षिणे हस्ते पञ्च तीर्थानि भवन्ति अङ्गुलीमध्ये देवतीर्थमङ्गुल्यग्र आर्षं तीर्थं मध्येऽग्नितीर्थमङ्गुष्ठतर्जन्योर्मध्ये पैतृकतीर्थमङ्गुष्ठतलेऽतिहृत्य पश्चाल्लेखं तद्ब्रह्मतीर्थम् २
माषमग्नं तु तन्मात्रं प्रतिगृह्य त्रिः पिबेदपो गोकर्णवद्धस्तेन त्रिराचामेत् ३
प्रथमं यत्पिबति तेन ऋग्वेदं प्रीणाति यद्द्वितीयं तेन यजुर्वेदं प्रीणाति यत्तृतीयं तेन सामवेदं प्रीणाति प्रथमं यत्परिमृजति तेनाथर्ववेदं प्रीणाति यद्द्वितीयं तेनेतिहासपुराणानि यन्मुखं तेनाग्निं यत्सव्यं पाणिमभ्युक्षति तेन नक्षत्राणि यत्पादमभ्युक्षति तेन विष्णुं यच्चक्षुषी तेन चन्द्रादित्यौ यन्नासिके तेन प्राणापानौ यच्छ्रोत्रं तेन दिशो यद्बाहू तेनेन्द्रं यद्धृदयं तेन रुद्रं यन्नाभिं तेन पृथिवीं यदङ्गुष्ठयोः स्रवन्त्यापः कुबेरादयः सर्वा देवताः प्रीणन्त्यग्निर्वायुः प्रजापतिरर्कचन्द्रौ मघवानिति वैदिकाः ४ अनामिकाङ्गुष्ठाभ्यां चक्षुषी समुपस्पृशेत् । प्रादेशिन्यङ्गुष्ठाभ्यां तु नासिके अङ्गुष्ठकनिष्ठकाभ्यां तु श्रोत्रे अङ्गुष्ठमध्यमाभ्यां तु बाहू चतुरङ्गुलीभिर्हृदयमङ्गुष्ठेन नाभिं सर्वैर्मूर्धानं समुपस्पृशेदेतेन विधिना युक्ता न लिप्यन्ते कदाचनेति ५

इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने सप्तमोऽध्यायः