अथ चतुर्थप्रश्ने षष्टोऽध्यायः
अथातश्शौचविधिं व्याख्यास्यामः ग्रामाद्दूरतो गत्वा यज्ञोपवीतं शिरसि दक्षिणे कर्णे वा कृत्वा मृत्तिकां गृह्णाति १
काष्ठमन्तर्धाय मध्य उपविशेत् २
अहन्युत्तरत उपेयान्निशायां दक्षिणत उभयोस्सन्ध्ययोरुदङ्मुखः ३
नाग्निं नापो न नग्नो वृक्षमूले पर्वतमूले चतुष्पथेऽग्न्यगारे गवां मध्ये गोष्ठे दहनपुलिनवर्जमन्तर्जले देवगृहे वल्मीके मूषिकस्थले प्रत्यग्निं प्रतिसूर्यं प्रत्यगारं प्रति गां प्रतिब्राह्मणं च ४
एकां लिङ्गे मृदं दद्यात्सव्ये पाणौ मृदस्त्रयः उभयोर्द्विर्मृदं दद्यान्मूत्रवच्छौचमिष्यते ५
पञ्चापाने दशैकस्मिन्नुभयोत्सप्त मृत्तिकाः एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः ६
त्रिगुणं तु वनस्थस्य यतीनां तु चतुर्गुणम् आचार्यगुरुदाराभिगमने नाभिभाषते ७
संस्थिते न म्रियते योनिसंस्कारादिति बोधायनः ८
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने षष्टोऽध्यायः