अथ चतुर्थप्रश्ने पञ्चमोऽध्यायः
अथातः काम्यविधिं व्याख्यास्यामः अन्नकामस्य जुहोति अन्नपतेऽन्नस्य नो धेहि जातो यदग्ने वषट्ते वास्तोष्पते एवावन्दस्व आनो नियुद्भिः हिरण्यवर्णाः अश्वावतीः त्वं वरुण बृहस्पते युवमिन्द्रश्च स्वस्ति न इन्द्रः इत्येता अन्नहोमा बलयश्च १
अथ समिद्धोमो यदग्ने यानि कानि इति २
औदुम्बरीं शमीमयीं वा शान्तिकामः शन्नो देवीरभिष्टये इति ३
दूर्वामायुष्कामः आयुष्टे आयुर्दां अग्ने अपैतु परं वातं प्राणं अमुत्र भूयात् हरि हरन्तं मानो महान्तं मानस्तोके वास्तोष्पते जातवेदसे तत्सवितुर्वरेण्यं ऋतेन यमादित्याः प्रजापते इति ४
यदपामार्गहोमो भवति रक्षसामपहत्यै इति ब्राह्मणम् । सर्वस्य भेषजोऽपामार्गहोमः यदपामार्गस्सपत्नहासहस्राणां पुष्ठिवर्धनाय । यन्मे शिरसि पापं केशेषु निहितं ललाटे पृष्ठे जठरे च यद्विश्वं सर्वस्य भेषजोऽपामार्गोऽवलुम्पतु स्वाहा इति ५
व्याहृतीभिस्तिलहोमो रक्षोघ्नाः पापनाशनश्च ६
अथाप्युदाहरन्ति ओषध्यस्सक्तवः पुष्पं काष्ठं मूलं फलं तृणम् एतद्धस्तेन होतव्यं नान्यत्किञ्चिदचोदनात् इति ७
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने पञ्चमोऽध्यायः