०४

अथ चतुर्थप्रश्ने चतुर्थोऽध्यायः

अथ प्रहुतानुकृतिः धर्मोपभोगविधिं व्याख्यास्यामः सेतुबन्धनदीखाततटाकपुष्करिणीवापीकूपदेवगृहप्रासादवसतीनामोषधिवनस्पतीनां च पूर्तं भवति भूतिकामो निशि जुहोति १
उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे यज्ञद्रव्याण्यध्वर्युरुपकल्पयते खादिरं पालाशं वा त्र्यरत्निमात्रं यूपं कृत्वा सौवर्णसर्पशिंशुमारकूर्ममकरकर्कटकमलकुवलयकुमुतोत्पलकह्लारांश्च राजतान् हंसमत्स्यमण्डूकांश्च देवगृहप्रासादवसतीनां तदाकृतिवदोषधिवनस्पतीनां तत्फलाकृतिवत् सुवर्णरत्नेषु सर्पिश्चरुतिलचूर्णपयोऽपूपधानान् सक्तून् गन्धपुष्पधूपदीपवासांसीध्माबर्हिषी च २
सप्रदोषे द्विजातीनां होमः ३
शूद्राणां नमस्कारैरावृतैर्वा ४ तटाकतीरे मध्यपूर्वे स्थण्डिलमुपलिप्य यूपावटं खात्वाऽध्वर्युश्च यूपं प्रतिष्ठापयति आब्रह्मन् ब्राह्मणः इति ब्राह्मणस्य अस्मिन् राष्ट्रे इति राजन्यस्य दोग्ध्री धेनुः इति वैश्यस्य ५ मणिमुक्ताप्रवालसुवर्णगजताक्षतैरवकीर्य जघनेन यूपं स्थण्डिलं कृत्वाऽथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वोपोत्थायाग्रेणाग्निं देवानावाहयति ब्रह्मणे विष्णवे श्रियै सूर्याय चन्द्रायाग्नये यमाय निरृत्यै वरुणाय वायवे सोमायेशानाय इत्यावाह्य सुवर्णरजताक्षतैरवकीर्य यूपदेवतां गन्धपुष्पधूपदीपैरभ्यर्च्य यूपमुपतिष्ठते तद्विष्णोः परमं पदम् इति ६
तं वासोभिर्वेष्टयित्वा तस्मिन् रूपाणि बध्वा परिधानप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति अवते हेडः उदुत्तमम् इति द्वाभ्याम् ७
अथाज्याहुतीरुपजुहोति कूप्याभ्यस्स्वाहा अद्भ्यस्स्वाहा इत्येताभ्यामनुवाकाभ्याम् इमं मे वरुण तत्त्वायामि यच्चिद्धि यत्किं चेदं कितवासो हिरण्यवर्णाश्शुचयः पावकाः त्वं नो अग्ने स त्वं नो अग्ने इति ८
स्विष्टकृतोऽथ यूपाहुतीर्जुहोति ब्रह्मणे स्वाहा । विष्णवे स्वाहा । श्रियै स्वाहा । सूर्याय स्वाहा । चन्द्रमसे स्वाहा । इन्द्राय स्वाहा । अग्नये स्वाहा । यमाय स्वाहा । निरृत्यै स्वाहा । वरुणाय स्वाहा । वायवे स्वाहा । सोमाय स्वाहा । ईशानाय स्वाहा इति ९ अथौषधिवनस्पतीनां पक्वाज्जुहोति या जाताः शतं वो अम्ब धामानि इति द्वाभ्याम् १०
अथाज्याहुतीरुपजुहोति पुष्पावतीः प्रसूवतीः ओषधीभ्यस्स्वाहा वनस्पतिभ्यस्स्वाहा इति त्रिभिरनुवाकैः प्रत्यृचम् ११
स्विष्टकृतोऽथ देवगृहेभ्यः पक्वाज्जुहोति वास्तोष्पते वास्तोष्पते इति द्वाभ्याम् १२
अथाज्याहुतीरुपजुहोति वास्तोष्पते ध्रुवास्थूणा इति षड्भिः १३
स्विष्टकृतोऽथ नमस्ते रुद्र मन्यवे इत्यान्तादनुवाकस्य प्रत्यृचम् १४
अथ कूश्माण्डानि हुत्वा पुरस्तात्स्विष्टाकृतो वैश्वानराय प्रतिवेदयामः इति १५
अथ चरतिलचूर्णपयस्सर्पिर्मिश्रैरपूपैर्धानाभिस्सक्तून् करम्भान् दर्भेषु बलिमुपहरति ब्रह्मणे नमः इति पूर्वोक्तद्वादशनामभिः १६
त्रिः प्रदक्षिणं यजमानो बलीन् सम्पकीर्यं यमसूक्तं वाचयित्वा पुरुषसूक्तं चोर्मिमन्तमुदधिं कृत्वा स्नात्वाऽप आचम्य ब्राह्मणेभ्यो वासांसि दद्यादाचार्याय गोमिथुनं दद्यादृषभैकादश गा दद्यादाशिषो वाचयित्वा रूपाणि विसर्जयेत् १७
एवं प्रयुञ्जानो दशपूर्वान् दशापरानात्मानं चैकविंशतिं पङ्क्तिं च पुनाति १८ अथाप्युदाहरन्ति नृत्तगीतवाद्यघोषैः प्रत्यूषे बोधयन्ति । एतेषां नष्टानां पुनः करणमधिकं फलमिति षष्टिर्वर्षसहस्राणि ब्रह्मलोके महीयत इत्याह भगवान् बोधायनः १९

इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने चतुर्थोऽध्यायः