अथ चतुर्थप्रश्ने तृतीयोऽध्यायः
अथातो मृतबलिं व्याख्यास्यामः प्राग्दक्षिणायतनं चतुरश्रं गोमयेनोपलिप्य प्राचीनावीती दक्षिणामुखस्सव्यं जानुं निपात्य सकृदुल्लिख्याद्भिरभ्युक्ष्य दक्षिणाग्रान् दर्भान् संस्तीर्याद्भिर्माजयित्वोपस्तीर्णाभिघारितं सकृत्तिलमिश्रं चरुमवद्यति मुष्टिप्रमाणं कुक्वटाण्डप्रमाणं वा हस्तेन अमुकगोत्रायैतत्ते ओदनस्स्वधा नमः इति १
अथाङ्गुष्ठेनाभिमृश्याथाञ्जनाभ्यञ्जने मधु वासो दशोर्णा वा गन्धपुष्पधूपदीपैर्हस्ताद्विपरीतात्सायं प्रातर्दशरात्रं कृत्वा स्वस्तिग्रामं भोजयित्वा दशम्यां विकृताहारं सायं बलिं दत्वाऽथैकादश्यामेकोद्दिष्टं कुर्वन्ति २
न जातु श्येनकाकादीन् पक्षिणः प्रतिषेधयेत् तद्रूपास्तस्य पितरस्समायान्तीति वैदिकाः इति विज्ञायते ३
इति बोधायनीयं गृह्यशेषसूत्रे चतुर्थप्रश्ने तृतीयोऽध्यायः