०२

अथ चतुर्थप्रश्ने द्वितीयोऽध्यायः

आहुतानुकृतिबलिहरणानुकृतिर्धूर्तबलिः चतुर्षु चतुर्षु मासेषु फाल्गुने मासि शुक्लपक्षस्य सप्तम्यां क्रियेत । अपि वा त्रयोदश्यामेवमाषाढ एवं कार्तिके १
साधनानि पुरस्तादेवोपकल्पयते बर्हिर्बैल्वानि चैव पञ्चदशेध्मदारूणि बैल्वं मेक्षणं परिधींश्च श्वेतरक्तं गन्धमाल्यं श्वेतरक्तांश्च प्रतिसरान् धूपं श्रपयत्यन्नानि विविधांश्च भक्ष्यान् स्थालीपाकं च श्रपयति २
अथैनानादाय सहान्तेवासिभिर्ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य यत्रापस्तद्गत्वा स्नात्वाऽप आचम्य सुरभिमत्याऽब्लिङ्गवारुणीभिर्हिरण्यवर्णाभिः पावमानीभिरिति मार्जयित्वाऽन्तर्जलगतोऽघमर्षणेन त्रीन् प्राणायामान् धारयित्वोत्तीर्य वासः पीडयित्वाऽन्यत्प्रयतं वासः परिधायाप आचम्य देवयजनमुदानयति ३
अथ शुचौ समे देशे वेदिं कुर्वन्ति पुरुषमात्रमपरिमितं वा ४
तस्याः पूर्वार्धे स्थण्डिलं कल्पयित्वोदुम्बरशाखां बहुपर्णां बहुशाखामप्रतिशुष्काग्रां नियत्य दर्भैर्भगवते धूर्ताय प्रतिकृतिं कृत्वाऽपरेणोदुम्बरशाखां प्रतिसरेण सह शाखया परिव्ययन्ते ५
ज्ञोपवीतमुपव्ययन्ते यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्रियं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः इति ६
तेन त्वामहं प्रतिगृह्णाम्यायुषा ब्रह्मणा ब्रह्मवर्चणाय इति ७
अपरार्धे वेद्यास्स्थण्डिलं कृत्वोल्लेखनप्रभृत्या पर्युक्षणात्कृत्वा वेदिं स्तृणात्यनतिदृश्नम् ८
उत्तरेणाग्निं प्रागग्रान् दर्भान् संस्तीर्य तेषु द्वन्द्वं न्यञ्चि पात्राणि सादयित्वा तूष्णीं संस्कृताभिरद्भिरुत्तानानि पात्राणि कृत्वा विस्रस्येध्मं त्रिस्सर्वाभिः प्रोक्ष्य दर्भेषु दक्षिणतो ब्राह्मणमुपवेश्योत्तरत उदपात्रं निधाय पक्वमोदनं पायसं वायाचितमद्भिरभ्युक्ष्याग्न वधिश्रियाज्यं निरूप्याधिश्रित्योभयं पर्यग्नि कृत्वापरिधानात्कृत्वा समन्वारब्धेष्वन्तेवासिषु प्रदक्षिणमग्निं परिषिच्याथेध्ममभ्यज्यादधाति इमं स्तोममर्हते जातवेदसे रथमिव सम्महेमा मनीषया । भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव स्वाहा इति ९
एवमेवाभ्यज्य द्वितीयामभ्यादधाति यन्मै त्वमायजसे संसाधय त्यनर्वां क्षेति दधते सुवीर्यम् । स तूताव नैनमश्नोत्यंहतिरग्ने सख्ये मा रिषाभा वयं तव स्वाहा इति १०
एवमेवाभ्यज्य तृतीयामभ्यादधाति शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतन् । त्वमादित्या आवह तान् ह्युश्मस्याग्ने सख्ये मा रिषामा वयं तव स्वाहा इति ११ एवमेवाभ्यज्य चतुर्भीमभ्यादधाति तत्ते भद्रं यत्समिद्धः स्वे दमे सोमाहुतो जरसे मृडयत्तमः । दधासि रत्नं द्रविणं च दाशुषे अग्ने सख्ये मा रिषामा वयं तव स्वाहा इति १२
एवमेवाभ्यज्य पञ्चमीमभ्यादधाति तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ट्य स्वाहा इति १३
एवमेवाभ्यज्य एकापचयेन भवे नमस्स्वाहा इति षडक्षरेण परिशिष्टाः १४ आघारप्रभृत्याऽग्निमुखात्कृत्वा दैवतमावाहयन्तो नृत्यन्तः त्रिः प्रदक्षिणं परियन्ति १५
यस्य सिंहा रथे यक्ता व्याघ्राश्चाप्यनुगामिनः तमिमं पुत्रिकापुत्रं स्कन्दमावाहयाम्यहम् १६
आयातु देवोत्तमः कर्तिकेयो ब्रह्मण्यपुत्रस्सह मातृभिश्च धात्र्या विशाखेन च विश्वरूपो जुष्टं बलिं सानुचरो जुषस्व १७
सप्ताहं जातयश्शक्तिस्सप्तपर्वमरिन्दमम् व्याघ्रावृतं महाधूर्तं प्रपद्ये सशितव्रतम् १८
परं देवं वरदं प्रपद्ये धूर्तं सेनामुग्रसेनामपर्णासुतं कृत्तिकानां षडास्यम् । अग्नेः पुत्रम् शमयैर्यथोक्तैश्चातुर्मास्यैस्सप्तमीं त्वामरण्ये । गन्धैश्च भक्त्या च यजाम शक्ते वित्तं वित्ता यशसश्च राजन् । कामांश्च धूर्तः प्रयच्छतु नमश्शङ्कराय नमश्च स्थाम्ने नमो नीलग्रीवाय नमः कृत्तिकापुत्राय । प्रीयतां विनियोगः प्रीयतां विशाखः प्रीयतां कृत्तिकापुत्रः प्रीयतां नमः प्रीयतां नमोनमः इति १९ तमायान्तमनुमन्त्रयते स्वागतं पुनरागतं भगवते धूर्तायैतदासनं कॢप्तमत्रास्तां भगवान् महाधूर्तः इति २०
अत्र कूर्चमर्हणं च ददाति भगवतोऽयं कूर्चः दर्भमयः त्रिवृद्धरितस्सुवर्णमयस्तं जुषस्व इति २१
अथास्मै कंसे वा चमसे वा पुष्पफलाक्षतमिश्रैर्वर्षीयसा तेजोमयेनापिधायार्हणीया आपो निवेदयन्ते इमा आपंश्शिवाश्शिवतमाः पूताः पूततमा मेध्य मेध्यतमा अमृता अमृतरसाः पाद्या अर्घ्या अभिषेचनीया मार्जनीयाश्च ता जुषन्तां प्रतिगृह्यन्तां प्रतिगृह्णातु भगवान् महाधूर्तः इति । आपो हिष्ठा मयुभुवः इति तिसृभिः हिरण्यवर्णाः इति चतसृभिः एवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा प्रदक्षिणमावृत्य प्रत्यङ्ङावृत्य जघनेनाग्निमुपविश्यान्वारब्धेष्वाज्याहुतीर्जुहोति स्कन्दाय स्वाहा । कुमाराय स्वाहा । बालाय स्वाहा । हिरण्यचूडाय स्वाहा । अङ्गिरसे स्वाहा । गुहाय स्वाहा । भद्रासनाय स्वाहा । नीलग्रीवाय स्वाहा । भवपुत्राय स्वाहा । धूर्ताय स्वाहा । पशुभुवे स्वाहा । षष्ठ्यै स्वाहा । विशाखाय स्वाहा । सनत्कुमाराय स्वाहा । स्कन्दपार्षदेभ्यस्स्वाहा । षष्ठीपार्षदेभ्यस्स्वाहा इत्येतैरेव नामधेयैः मेक्षणेनोपघातं पूर्वार्धे जुहोति २२
उत्तरार्धात् स्विष्टकृतमवदायान्तःपरिधि सादयित्वोपोत्थाय दैवतमर्चयत्येतैरेव नामधेयैर्गन्धपुष्पधूपदीपैः अमुष्मै नमोऽमुष्मै नमः इति । अन्नेन अमुष्मै स्वाहाऽमुष्मै स्वाहा इति । फलोदकेन अमु तर्पयाम्यमुं तर्पयामि इति २३
अत्र नमस्यति यं कामं कामयते तन्मे कामस्समृध्यतां तस्मिन् कामे समृद्धे द्रोणमुपहरिष्यामि कामं वर्धयतु इति । कामे समृद्धे द्रोणान्नमुपहरिष्यति २४
अथैनमुपतिष्ठते नमो भवोद्भव इति गुहो गुह्यपतिर्भवः २५
वसुर्वसुपतिः नमो धूर्तस्वामी प्रसीदतु २६
महायशा महातेजा महासेनो महारूपः २७
महातपा मे भक्तस्य प्रतिगृह्णात्विमं बलिम् इति २८ अथोपविश्य स्विष्टकृतं हुत्वोपोत्थाय दैवतं प्रवाहयन्तो नृत्यन्तस्त्रिरपसलैः परियन्ति सिंहव्याघ्रसमायुक्तस्स रथो रथिनां वरः प्रयातु भगवान् धूर्तः प्रियवाणिः प्रियङ्करः ॐनम इति अथोपविश्य जयप्रभृति सिद्धमाधेनुवरप्रदानात् ३०
अथैनां प्रतिकृतिमादाय शिरसि निधायावभृथमन्त्रेणाप्सु प्रप्लाव्यातिशिष्टैर्गन्धमाल्यैरात्मानमलङ्कृत्य प्रतिसरं बध्नाति ३१
अदित्या सुकृतं सूत्रमिन्द्रेण त्रिवृतं कृतम् अश्विभ्यां ग्रथितो ग्रन्थिर्ब्रह्मणा प्रतिसरं कृतम् अभिचारं च सर्वं च यच्च मे दुष्कृतं कृतम् सर्वतो मे भय नास्ति यावत्सूत्रं धरिष्यति इति ३२
अथान्योन्यमपः प्रतिग्राहयन्ते प्रीयतां भगवान् महाधूर्तः इति ३३
अथ पक्वादुपादाय प्राश्नाति ३४
न स्त्रीकुमारौ प्राश्नीयाताम् ३५ तत्प्राशनमन्त्रः आयुरसि इति ३६
प्राश्याप आचम्य जठरमभिमृशति यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम् ३७
पुनःपुनरवोक्ष्यान्त आयुष्यं वर्चस्यं राक्षोघ्नं स्वस्त्ययनमृद्धमिति ३८
आहुतानुकृतिर्व्याख्यातो बलिहरणानुकृतिः ३९ दैवतमावाह्य गन्धपुष्पधूपदीपान्नफलोदकैरभ्यर्च्य नमस्कृत्य प्रवाहयन्ते ४०
धूर्तबलिं चतुर्षु चतुर्षु मासेष्वेवं यजमानः चातुर्मास्यानां फलमवाप्नोतीति ह स्माह भगवान् बोधायनः ४१

इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने द्वितीयोऽध्यायः