अथ चतुर्थप्रश्नप्रारम्भः अथातो मिथ्यासत्यबलिं व्याख्यास्यामः ब्राह्मणक्षत्रियवैश्यशूद्राः पञ्चगव्येन स्नात्वा ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य देवगृहे नदीतीरे वाऽथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति यत इन्द्रभयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम् १
अथाज्याहुतीरुपजुहोति अपैतु मृत्युः परं मृत्यो मा नो महान्तं मा नस्तोके त्र्यम्बकं ये ते सहस्रम् इति विष्णोर्नुकं जातवेदसे अग्ने त्वं पारय इति व्याहृतिभिः मृत्युर्नश्यत्वायुर्वर्धतां भूस्स्वाहा । मृत्युर्नश्यत्वायुर्वर्धतां भुवस्स्वाहा । मृत्युर्नश्यत्वायुर्वर्धतां सुवस्स्वाहा । मृत्युर्नश्यत्वायुर्वर्धतां भूर्भुवस्सुवस्स्वाहा इति । स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् २
अथाग्रेणाग्निं दूर्वास्तम्बेषु हुतशेषं निदधाति यो रुद्रो अग्नौ इति भस्मसमुल्लेखनम् ३
आचार्येभ्यो गोवत्सं दद्यात् ४
अन्नं संस्कृत्य ब्राह्मणान् सम्पूज्याशिषो वाचयित्वा ऋषभैकादश दक्षिणां दद्यादित्याह भगवान् बोधायनः ५
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने प्रथमोऽध्यायः