२३

अथ तृतीयप्रश्ने त्रयोविंशोऽध्यायः

अथातश्शुभाशुभनिमित्तानां वायसानां बलिं व्याख्यास्यामः शुक्लपक्षे त्रयोदश्यामष्टम्यां नवम्यां वा ग्रामात्प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य देवस्य गृहे गोष्ठे नदीतीरे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य प्रोक्ष्य लक्षणमुल्लिख्याद्भिरभ्युक्ष्य प्रदक्षिणं दर्भैरासनानि कल्पयति अङ्कतेभ्यः कल्पयामि । कङ्कतेभ्यः कल्पयामि । कद्रुपुत्रेभ्यः कल्पयामि । वायसेभ्यः कल्पयामि । ब्रह्मपुत्रेभ्यः कल्पयामि इति तन्मध्ये १
अथैनानावाहयति न कपिलान्न लोहितान्नारिष्टान् न महारिष्टान् वायसमात्रकान् २
आयान्तु शकुनाश्शीघ्रा वायसा बलिभोजनाः ३
अङ्कतानावाहयामि । कङ्कतानावाहयामि । कद्रुपुत्रानावाहयामि । वायसानावाहयामि । ब्रह्मपुत्रानावाहयामि इति मध्ये ४
अथैनान् स्नापयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वाऽथाद्भिस्तर्पयति अङ्कतेभ्यस्तर्पयामि । कङ्कतेभ्यस्तर्पयामि । कद्रुपुत्रेभ्यस्तर्पयामि । वाससेभ्यस्तर्पयामि । ब्रह्मपुत्रेभ्यास्तर्पयामि इति मध्ये ५ अथैनान् गन्धपुष्पधूपदीपैः अमुष्मै नमोऽमुष्मै नमः इति पायसं द योदनं वा हविर्निवेदयति अङ्कतेभ्यस्स्वाहा । कङ्कतेभ्यस्स्वाहा । कद्रुपुत्रेभ्यस्स्वाहा । वायसेभ्यस्स्वाहा । ब्रह्मम्पुत्रेभ्यस्स्वाहा इति मध्ये ६
अथैनान् ज्ञापयति सत्याः स्थ सत्यं वदत सत्ये रमत वायसाः यत्सत्यमिह तद्ब्रूयाद्यो मिथ्याबलिमश्नियात् ७
अथैते मातृघातेन पितृघातेन वा पुनः तद्दुष्कृतं प्रतिगृह्णीयाद्यो मिथ्याबलिमश्नीयात् ८ कपिलानां शतं हत्वा ब्राह्मणानां विशेषतः तद्दुष्कृतं प्रतिगृह्णीयाद्यो मिथ्याबलिमश्नियात् ९
भावाय पूर्वं गृह्णीयादभावायानु दक्षिणम् नास्तीत्यपरं गृह्णीयाद्भविष्यत्यपि चोत्तरम् १०
मध्ये सर्वार्थलाभाय शाकुनेष्विदमुत्तमम् इत्येवं ज्ञात्वा सर्वकर्माण्यारभत इत्याह भगवान् बोधायनः ११

इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने त्रयोविंशोऽध्यायः