२२

अथ तृतीयप्रश्ने द्वाविंशोऽध्यायः

यस्त्वात्मनश्श्रेयांसमिच्छत्यौर्ध्वदैहिकं स्वस्य यदि भवति तदा दहनप्रभृति सपिण्डीकरणान्तं जीवन्नेवाधस्तथोक्तं सकलं कुर्यात् १
तथाह कण्वः जीवन्नेव च यः कुर्वन्नात्मनश्श्राद्धमिच्छति यन्त्रेण कृत्वा संस्कारमुदकं बलिमेव च २
कृत्वाऽथ षोडशश्राद्धं दद्याद्यद्यत्प्रियं भवेत् आत्मनस्तत्स्वयं दत्वा ततश्श्राद्धं समापयेत् ३
तत्राशौचं दशाहं स्यात् स्वस्य ज्ञातेर्न विद्यते इति ५
अत्रैव विष्णुः आत्मार्थं पारलौक्यं यत्तत्सर्वं लमवाप्नुयात् न हि कर्म कदाचित्तु क्षयमेति कृतं नरैः इति ५
तस्माद्यस्य न सन्ति कर्तारो ज्ञातयः पुत्रोऽन्तेवासिनो वा स जीवन्नेव आमुष्मिकं सर्वमविकृतं कुर्वन् नामोच्चारणे तद्गोत्राय तच्छर्मणे करिष्यते ६
अथ वा प्रविदानकल्पेन वा दद्यादितीदमप्येकम् ७

इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने द्वाविंशोऽध्यायः