अथ तृतीयप्रश्ने एकविंशोऽध्यायः
अथातो नारायणबलिसंस्कारविधिं व्याख्यास्यामः चण्डालादुदकात्सर्पाद्ब्राह्मणाद्वैद्युतादपि दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मिणाम् विषस्त्रिरज्जुपाषाणदेशान्तरमृतेऽपि वा अभिशस्तसुरापात्मत्यागिनां द्विजहतानामन्येषां च द्वादश वर्षाणि त्रीण्येकं वा यत्र मरणं यस्य तत्रतत्र कुर्वीत १
असांहितानां पालाशाग्रमाहूयपर्णत्सरूणां कृष्णाजिने पुरुषाकृतिं कृत्वा होतृकल्पेन वा पितृमेधेन वा संस्कुर्यात् २
अथ प्रयोगमन्त्रानपोद्धृत्य पुरुषसूक्तस्य प्रत्यृचं तत्तन्मन्त्राणां स्थाने पृथक्पृथक्प्रयोगो भवति ३
अपि वा तूष्णीं सर्वं क्रियेत ४
याम्यसूक्तेनोपोषणम् ५
पौरुषेणोपस्थानम् ६
समानमत ऊर्ध्वम् ७
तीर्थे स्नात्वा प्रेतायोदकक्रियां कृत्वा नामगोत्रे मनसा ब्रूते नारायणैतत्त उदकम् इति वाचाऽभिव्याहरेत् ८
स एतमेव सायम्प्रातर्दशरात्रं करोति ९
त्रिरात्रेण वा १०
पिण्डदाने असावेतत्ते पिण्डम् इति विशेषः ११
एकादश्यामेकोद्दिष्टम् १२
एवं प्रेतायामुष्मै यमाय च स्वाहा इत्यग्रौ करणे वा १३
प्रतिग्रहणे प्रदाने विसर्जने च नारायणाय इत्यनेन मन्त्रेण करोति १४
सर्वं मनसा सङ्कल्पयेद्वाचाऽभिव्याहरेत् १५
पर्वत्रये च षाण्मासिके च समानम् १६
संवत्सरे सपिण्डीकरणम् सपिण्डीकरणस्थाने नारायणवलिक्रिया १७
सायं प्रातर्न विद्यते सोयं बोधायनमतो यथा १८
द्वयोरयनसङ्क्रान्त्योः पुण्येषु दिवसेषु वा १९
अथ वाऽपरपक्षस्य क्रिया भवेत् २०
सपिण्डीकरणमेतेषामन्येषां च समानम् २१
प्रेतपात्रं पितृपात्रे निनयेत् । त्रिषु वासिञ्चेत् । प्रेतपिण्डं पितृपिण्डेषु निदध्यात् असौ पितृभिः पितामहैः प्रपितामहैस्सङ्गच्छध्वं भूर्भुवस्सुवरोम् इत्याह भगवान् बोधायनः २२
इति बोधायनीये गृह्यशेससूत्रे तृतीयप्रश्ने एकविंशोऽध्यायः