२०

अथ तृतीयप्रश्ने विंशोऽध्यायः

अथातो नारायणबलिं व्याख्यास्यामः दक्षिणोत्तरायणयोरपरपक्षस्य द्वादश्यां क्रियेत १
पूर्वेद्युर्द्वादश षड्वा ब्राह्मणान्निमन्त्रयते योनिगोत्रश्रुतवृत्तसम्पन्नान् २
अथापरेद्युर्देवगृहे नदीतीरे वाऽग्निमुपसमाधाय सम्परिस्तीर्य आप्रणीताभ्यः कृत्वोपोत्थायाग्रेणाग्निं दैवतमावाहयति पुरुषसूक्ते द्वे ऋचौ जपित्वा व्याहृतिभिः पुरुषमावाहयति ३
अथैनं स्नापयति पुरुषसूक्तेन ४
अथैनं गन्धपुष्पधूपदीपैरष्टाक्षरेणार्चयित्वाऽद्भिस्तर्पयति केशवं तर्पयामि इति द्वादशनामभिः ५
परिधानप्रभृत्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति विष्णोर्नुकम् इति पुरोनुवाक्यामनूच्य परो मात्रया इति याज्यया जुहोति ६
अथाज्याहुतीरुपजुहोति केशवाय स्वाहा इत्येतैरेव नामधेयैः ७
अथ गुलपायसघृतमिश्रमन्नं निवेदयति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां विष्णवे महापुरुषाय हविर्निवेदयामि इति । सप्तव्याहृतिभिस्स्वाहाकारेण जपति । व्याहृतिभिराचमनीयम् ८
अथ ब्राह्मणानाहूय सदर्भोपकॢप्तेष्वासनेषूपवेश्याथैनान् वस्त्रगन्धपुष्पधूपदीपैर्माल्यैरभ्यर्च्याथाभ्यनुज्ञातस्तिलघृतमिश्रं हविस्समुदायुत्य हस्ते जुहोति पितृभ्यस्स्वधा नमो नारायणाय स्वाहा इत्यादिचतुर्विंशतिः मन्त्रा ऊह्याः ९
अथ अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमो नारायणाय स्वाहा इति १०
अथ ब्राह्मणानन्नेन परितोष्याचम्य तेषां यथाशक्ति दक्षिणां ददाति ११ प्रदक्षिणीकृत्य शेषमनुज्ञाप्य दक्षिणेनाग्निं प्रागग्रान् दर्भान् संस्तीर्य तेषु बलिं ददाति विश्वेभ्यो देवेभ्यो नमस्साध्येभ्यो देवेभ्यो नमस्सर्वेभ्यो देवेभ्यो नमस्सर्वाभ्यो देवताभ्यो नमो विष्णवे नमो नारायणाय नमस्सहस्रशीर्षाय नमो यज्ञात्मने नमो यज्ञपुरुषाय नमो विश्वात्मने नमस्सर्वात्मने नमस्सर्वेश्वराय नमः इति १२
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् १३
सर्वान् पितॄन् समधिगच्छति ब्रह्मलोके महीयत इत्याह भगवान् बोधायनः १४

इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने विंशोऽध्यायः