अथ तृतीयप्रश्ने अष्टादशोऽध्यायः
अथातस्सहस्रभोजनसुत्यां व्याख्यास्यामः विषुवेऽयने जन्मनक्षत्रे चन्द्रसूर्यग्रहणे ग्रहगृहीते व्याधिग्रस्ते प्रजाकामोऽयकामो वा ब्राह्मणाननुज्ञाप्य अभीष्टमाहुर्वरणं कृत्वा सहस्रब्राह्मणान् वेदपारगान् भोजयित्वा सहस्रसङ्ख्यापरिपूर्णे पुण्ये नक्षत्रे ब्राह्मणान् द्वादश षड्वा निमन्त्रयित्वा स्नानासनादिगन्धपुष्पधूपदीपैरभ्यर्च्याथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वोपोत्थायाग्रेणाग्निं व्याहृतीभिर्विष्णुमावाह्य परिधानप्रभृत्याऽग्निमुखात्कृत्वा दैवतमर्चयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा गन्धपुष्पधूपदीपैरभ्यर्च्याथ पक्वाज्जुहोति विष्णोर्नुकम् इति पुरोनुवाक्यामनूच्य विष्णो रराटमसि इति याज्यया जुहोति १
अथाज्याहुतीरुपजुहोति केशवाय स्वाहा इति द्वादशनामधेयैः स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् २
अथ विप्रान् भोजयित्वा गुलपायसं घृतमिश्रमित्यन्नस्य बलिमुपहरति अमुष्मै स्वाहा इति द्वादशनामधेयैः ३
अथ ब्राह्मणेभ्यो वस्त्रयुगानि कुण्डलयुगान्यङ्गुलीयकमुपानहौ छत्रं कमण्डलुमिति च दद्यात् ४
अन्नशेषमाज्यशेषं पक्वशेषं चोभौ जायापती प्राश्नीयातां सर्वान् कामानाप्नोति महापातकैः प्रसुच्यते षष्टिर्वर्षसहस्राणि ब्रह्मलोकमतीत्य विष्णुलोके महीयते इत्याह भगवान् बोधायनः ५
इति बोधायनीये गृह्यशेषसुत्रे तृतीयप्रश्ने अष्टादशोऽध्यायः