१७

अथ तृतीयप्रश्ने सप्तदशोऽध्यायः

अथातस्सहस्रभोजनविधिं व्याख्यास्यामः उदगयने पूर्वपक्षे पुण्ये नक्षत्रे त्रिजन्मनि दक्षिणायने वा क्रियेत १
स्वगृहे देवगृहे वा यत्र शुचिर्देशः स्यात्तत्र शुचिर्भूत्वा युग्मान् ब्राह्मणान् सुप्रक्षालितपाणिपादानप आचमय्य आसनं कल्पयित्वा गन्धपुष्पधूपदीपैरभ्यर्च्य सङ्कल्पसिद्धिरस्तु इति वाचयित्वा त्रिवृताऽन्नेन ब्राह्मणान् सम्पूज्याशिषो वाचयित्वा प्रदक्षिणनमस्कारं विदधीत २
सहस्रात्मानमीश्वरं सहस्रभोजनेन सम्पूज्य एकस्मै स्वाहा द्वाभ्यां स्वाहा इति दशानुवाकान् भोजनान्ते द्वादश ब्राह्मणाः श्राविताः भवन्ति षड्वा ३
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वाऽथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति विष्णोर्नुकम् इति पुरोनुवाक्यामनूच्य विष्णो रराटमसि इति याज्यया जुहोति ४
अथाज्याहुतीरुपजुहोति केशवाय स्वाहा इत्यादि द्वादशनामधेयैस्स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ५
अथ विप्रान् भोजयित्वा गुलपायसं घृतमिश्रमित्यन्नस्य बलिमुपहरति अमुष्मै स्वाहाऽमुष्मै स्वाहा इति द्वादशनामधेयैः ६
अथ ब्राह्मणेभ्यो निवेदयित्वा वस्त्रयुगानि कुण्डलयुगान्यङ्गुलीयकमुपानहौ छत्रं कमण्डलुमिति च दद्यात् ७
अन्नशेषमाज्यशेषं पक्वशेषं चोभौ जायापती प्राश्नीयातां सर्वान् कामानवाप्नोति सर्वकल्मषैः महापातकैः प्रमुच्यते षष्टिर्वर्षसहस्राणि ब्रह्मलोकमतीत्य विष्णुलोके महीयत इत्याह भगवान् बोधायनः ८

इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने सप्तदशोऽध्यायः