१६

अथ तृतीयप्रश्ने षोडशोऽध्यायः

अथ वृषोत्सर्गः कार्तिक्यां पौर्णमास्यां क्रियेतापि वा आश्वयुज्यां वैशाख्यां वा गोष्ठे गवां मध्ये १
अथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति पूषा गा अन्वेतु नः इति पुरोनुवाक्यामनूच्य शुक्रं ते अन्यत् इति याज्यया जुहोति २
अथाज्याहुतीरुपजुहोति इह धृतिस्स्वाहा । इह विधृतिस्स्वाहा । इह रन्तिस्स्वाहा । इह रमतिस्स्वाहा इति उपसृजन्मात्रे वत्सं धारयन् धरुणो धयत्रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहा इति । आ गावो अग्मन्नुत भद्रमक्रन् इत्येतेन सूक्तेन नमस्ते रुद्र मन्यवे इत्याऽन्तादनुवाकस्य ३
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ४
अथ रुद्रं जपित्वा गोमिथुनमध्वर्यवे ददाति ५
लाजमन्त्रेण त्रिः प्रदक्षिणं परिक्रमयेदेकवर्णो द्विवर्णो वा यूधं छादयति । यूधस्य मुख्याश्चतस्रो वत्सतर्यः स्नाप्याच्छाद्य तिलोदकं गृह्णाति ऋचां प्राची इति ६ अवधूनुयुर्जलबिन्दून् पीत्वा तृप्ता यान्तु पितरः इति ७
अथैनं मध्ये गोष्वपि सृजति एतं युवानं परि वो ददामि इति ८ अपियन्तमनुमन्त्रयते त्वां गावः इति ९ मध्यस्थमनुमन्त्रयते मयोभूर्वातो अमिवातूस्नाः इति १०
सर्वासां पयसि पायसं श्रपयित्वा ब्राह्मणान् सम्पूज्याशिषो वाचयित्वा यथाशक्ति दक्षिणां ददाति ११
तिर्यग्योनिगतान् ज्ञातीन् जात्यन्तरे वर्तमानाम् दुष्कुलैरपरुद्धान् दशपूर्वान् दशापरानात्मानं चैकविंशतिं पङ्क्ति च पुनाति न च पुनरावर्तते न च पुनरावर्तते इति १२ अथाप्युदाहरन्ति एष्टव्वा बवहः पुत्रा यद्येकोपि गयां व्रजेत् गौरीं वा वरयेत्कन्यां नीलं वा वृषत्मुसृजेत् १३
लोहितो यस्तु वर्णेन श्वेतलागूललक्षणः खुरे ककुदि च श्वेतस्स वै नीलवृषस्स्मृतः १४ इत्याह भगवान् बोधायनः १५

इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने षोडशोऽध्यायः