१५

अथ तृतीयप्रश्ने पञ्चदशोऽध्यायः

अथातोऽर्धमासेऽर्धमासेऽष्टम्यां ब्राह्मणाः ब्रह्मचारिणः स्त्रियश्च पुत्रकामा आयुष्कामा आरोग्यकामा ब्रह्मवर्चसकामास्सौभाग्यकामाश्चोपवसन्ति १
अथ प्रदोषे रुद्रं विरूपाक्षं सपत्नीकं ससुत सगणं सपारिषत्कमावाहयामि इत्यावाह्य स्वागतेनाभिनन्दयति स्वागतं पुनरागतम् २
भगवते महादेवाय विरूपाक्षाय सपत्नीकाय ससुताय सगणाय सपारिषत्कायेत्येतदासनं कॢप्तमत्रास्तां भगवान् महादेवो विरूपाक्षस्सपत्नीकस्ससुतस्सगणस्सपार्षत्कः इति ३ अथ कूर्चं ददाति भगवतोऽयं कूर्चः दर्भमयस्त्रिवृद्धरितस्सुवर्णमयस्तं जुषस्व इति प्रतिगृह्णातु भगवान् महादेवो विरूपाक्षाय सपत्नीकाय ससुताय सगणाय सपार्षत्कायेति ४
अथात्र स्थानानि कल्पयति महाकालाय नमः शङ्कराय नमो बभ्रुकर्णाय नमो नन्दिकेश्वराय नमो दण्डिमुण्डाय नमः चण्डिकेश्वराय नमः इति ५
अथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति आर्द्रया रुद्रः हेती रुद्रस्य इति द्वाभ्याम् ६ अथाज्याहुतीरुपजुहोति भवाय देवाय स्वाहा इत्यादिभिश्चतुर्विंशतिभिः हुत्वा हव्यवाहं स्विष्टम् इति स्विष्टकृतं हुत्वाऽथाग्रेणाग्निमर्कपर्णेषु हुतशेषं निदधाति यो रुद्रो अग्नौ इति ७
शिष्टैर्गन्धमाल्यैरभ्यर्च्य रौद्रीभिः ऋग्यजुस्सामाथर्वभिस्स्तुतिभिः स्तुन्वन्त्यार्षैस्स्तोत्रैः ८
देवतां प्रवाहयति प्रयातु भगवान् ईशानस्सर्वलोकानां सर्वलोकनमस्कृतः अनेन हविषा तृप्तः पुनरागमनं प्रति इति प्रत्यभिमृशतेऽयनाय चेति ९
य एवं विद्वानावरति पुत्रवान् पशुमान् भवति सर्वं पाप्मानं तरति तरति ब्रह्महत्यां अपपुनर्मृत्युं जयतीति ह स्माह भगवान् बोधायनः १०

इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने पञ्चदशोऽध्यायः