अथ तृतीयप्रश्ने चतुर्दशोऽध्यायः
अथातो यमलकल्पं व्याख्यास्यामः पत्नी गावो वा यमलौ विजायेरन् तस्य संस्कारः प्राङ्नामकरणात् कार्यः १
ब्राह्मणाननुजाप्य चतुर्णां क्षीरवृक्षाणां कषायानाहरेयुः प्लक्षन्यग्रोधाश्वत्थोदुम्बराणां चतुर उदकुम्भान् पूरयित्वा चतस्रो विधवा ब्रह्मचारिणो वा हिरण्यमन्तर्धाय स्नापयेयुश्शतधारेण वा कृत्वाऽभिषिञ्चन्ति २
अथ भूतबलिं करोति । आचार्यमलङ्कृत्य गोमिथुनं दद्यात् ३
पुंसो यवमयं गोमूत्रं स्त्रियो हिरण्यगर्भस्समवर्तताग्रे इत्यष्टभिर्हुत्वा कार्यो मारुतश्चरुर्न तस्य भयं विद्यत इति प्रसिद्धं नामकरणम् ४
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने चतुर्दशोऽध्यायः