१३

अथ तृतीयप्रश्ने त्रयोदशोऽध्यायः

अथातश्शिथिलीकल्पं व्याख्यास्यामः गृहसीमान्तचतुरश्रदिग्विधानेनान्तश्चोत्तरविधिः १
गृहमध्ये शिथिली जायते सप्ताहात् शुभकरं भवस्यत ऊर्ध्वं प्रजानां व्याधिपीडनं करोति यत इन्द्र भयामहे इति पलाशसमिद्भिरष्टोत्तरशतं जुहुयात् हविष्यमाज्यं च दोषमपहरति २
इन्द्रदिग्भागे शिथिली जायते सकुटुम्बस्य महद्भयं भवति सदसस्पतिम् इति मन्त्रेन खादिरसमिद्भिर्जुहुयात् ३
अग्निदिग्भागे शिथिली जायते सप्ताहात्सुहृदागमनं भवत्यत ऊर्ध्वं राजक्षोभं करोति अयमु ते समुतसि कपोत इव गर्भधिम् । वचस्तच्छिन्न ओजसे स्वाहा इत्यौदुम्बरसमिद्भिर्जुहुयात् ४
यमदिग्भागे शिथिली जायतेऽष्टाहादर्थलाभमाप्नोति तत ऊर्ध्वं भार्यामरणं करोति प्लक्षसमिद्भिस्त्रियम्बकेन जुहोति ५
निरृतिदिग्भागे शिथिली जायते त्र्यहाद्वृष्टिं करोति तत ऊर्ध्वं भार्यानाशं करोत्यपामार्गसमिद्भिः प्रजापते न त्वत् इति मन्त्रेण जुहोति ५
वरुणदिग्भागे शिथिली जायते गर्भलाभं करोत्यत ऊर्ध्वं चोरभयं कुर्याद्दूर्वासमिद्भिः गणानां त्वा इति जुहोति ७
वायुदिग्भागे शिथिली जायते कन्यादोषमुपजायते दूर्वासमिद्भिः सप्त ते अग्ने इति जुहोति ८
सोमदिग्भागे शिथिली जायते शत्रुखादनं करोत्यत ऊर्ध्वं धान्यनाशं करोति वटसमिद्भिरघोरमन्त्रेण जुहोति ९
ईशानदिग्भागे शिथिली जायते गृहपतेर्व्याधिपीडनं करोति येषामीशे इति शमीसमिद्भिर्जुहोति १०
द्वारप्रदेशे शिथिली जायते गृहिणीनाशं करोति बिल्वसमिद्भिस्त्रियम्बकेन जुहोति ११ शयनप्रदेशे शिथिली जायते गृहपतेर्मरणं करोति व्याहृतीभिर्यवैर्जुहोति १२
गोमहिषस्थाने शिथिली जायते प्रजानां चक्षुर्नाशं करोति व्याहृतीभिर्यवैर्जुहोति १३ जलभाण्डस्थाने शिथिली जायते दासवर्गनाशं करोति सप्तव्याहृतीभिर्यवैर्जुहोति १४
देवालये शिथिली जायते ग्रामेऽग्निभयं करोति बिल्वसमिद्भिस्त्रियम्बकमन्त्रेण जुहोति १५
सभास्थाने शिथिली जायते ग्रामस्य सकुटुम्बस्याध्रुवं कुर्यादात्वाहार्षसूक्तेन दूर्वाभिर्जुहोति १६
देवालये सभास्थाने तटाके गृह एव वा उत्पन्ने रक्तवल्मीके कुर्यात्तस्य प्रतिक्रियाम् १७
समिद्भिस्सर्पिषा चैव हविषा तिलसर्षपैः कुर्याद्व्याहृतिमन्त्रेण होममष्टशतं पृथक् १८
धर्मास्थाने तु बल्मीके जाते मरणमादिशेत् इन्द्रस्थाने श्रियं ब्रूयादाग्नेये च तथाऽश्रियम् १९
याम्ये बन्धुविनाशस्स्याद्राक्षसे गृहिणीं हरेत् वारुणे बन्धुलाभस्स्याद्वायव्ये दूर आगतिः २०
सौम्यै सुखं तथा रौद्रे दुर्वाक्यं मरणं भवेत् इत्याह भगवान् बोधायनः २१

इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने त्रयोदशोऽध्यायः