१२

अथ तृतीयप्रश्ने द्वादशोऽध्यायः

अथातोऽभिवृद्धिकल्पं व्याख्यास्यामः ग्रामस्य देवतायतनस्य गृहस्य वा सारतमक्षेत्रेषु वा भूतिमिच्छन् पूर्वपक्षे स्थिरराशौ स्थिरमुहूर्ते ब्रह्मस्थाने इन्द्रस्येशानस्य वा दिशि जानुदघ्नमवटं खात्वा गोमयेन गोचर्ममात्र चतुरश्रं स्थण्डिलमुपलिप्य प्रोक्ष्य सैकतेनावकीर्य मध्ये पद्मपत्र लिखित्वा कुशाग्रेण पञ्चगव्येन आपो हिष्ठा मयोभुवः हिरण्यवर्णाः पवमानस्सुवर्जनः इत्येतेनानुवाकेन व्याहृतीभिः प्रोक्ष्य सुमनसोऽवकीर्याशिषो वाचयित्वा पद्ममध्ये सैकतेन स्थण्डिलं कृत्वाऽग्निमुपसमाधाय सम्परिस्तीर्य परिधानप्रभृत्याऽग्निमुखात्कृत्वा मध्येऽग्नौ मनसा पद्मासनं ध्यात्वा श्रियमावाहयति गन्धद्वाराम् इत्येतयर्चा गन्धादिभिरन्वाराध्य बिल्वसमिद्भिः श्रीसूक्तेन हुत्वा पक्वाज्जुहोति वास्तोष्पते वास्तोष्पते इति द्वाभ्याम् १
अथाज्याहुतीरुपजुहोति ब्रह्म जज्ञानम् इति षड्भिरनुच्छन्दसम् २
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ३
अथाग्रेणाग्निं पुष्करपर्णेषु हुतशेषं निदधाति यत्पर्यपश्यत् इति ४ पुष्करपर्णं प्रक्षाल्य पञ्चगव्येन मथितेन पूरयित्वा गन्धादिभिस्सम्पूज्य श्रीसूक्तेन स्वक्षेत्राणि प्रोक्षतीत्याह भगवान् बोधायनः ५

इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने द्वादशोऽध्यायः