अथ तृतीयप्रश्ने एकादशोऽध्यायः
अथातो मृत्युञ्जयकल्पं व्याख्यास्यामः जन्मनक्षत्रे पुण्ये नक्षत्रे त्रिजन्मनि वा ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वाऽथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा सावित्र्या पक्वं हुत्वा प्रादेशमात्रास्तिस्रस्तिस्रो दूर्वा एकां समिधमाहृत्य अष्टसहस्रमष्टशतमष्टाविंशतिर्वा दधिमधुघृतपयांसि समुदायुत्याभ्यज्यादधाति अपैतु मृत्युः परं मृत्यो मा नो महन्तं मा नस्तोके त्रियम्बकं ये ते सहस्रम् इत्यष्टषष्टिशतकृत्व आवर्तयेत्तदानीं अष्टसहस्रं सम्पद्यते १
अथाज्याहुतीरुपजुहोति मृत्युर्नश्यत्वायुर्वर्धतां भूस्स्वाहा । मृत्युर्नश्यत्वायुर्वर्धतां भुवस्स्वाहा । मृत्युर्नश्यत्वायुर्वर्धतां सुवस्स्वाहा । मृत्युर्नश्यत्वायुर्वर्धतां भूर्भुवस्सुवस्स्वाहा इति २
जयप्रभृति सिद्धमाधेनुवरप्रदानात् ३
अथाग्रेणाग्निं दूर्वास्तम्बेषु हुतशेषं निदधाति तच्छं योरावृणीमहे इति ४
अथ दक्षिणां ददाति धेनुमृषभमनड्वाहं कंसं हिरण्यं वासो वेत्यपपुनर्मृत्युं जयतीति ह स्माह भगवान् बोधायनः ५
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने एकादशोऽध्यायः