१०

अथ तृतीयप्रश्ने दशमोऽध्यायः

अथातो विनायककल्पं व्याख्यास्यामः मासिमासि चतुर्थ्यां शुक्लपक्षस्य पञ्चम्यां वाऽभ्युदयादौ सिद्धिकामः ऋद्धिकामः पशुकामो वा भगवतो विनायकस्य बलिं हरेत् १
पूर्वेद्युः कृतैकभुक्तः शुचिरप आचम्याथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा दक्षिणामुखं हस्तिमुखं दक्षिणतो ब्राह्मणमुपवेश्योपोत्थाय दैवतमावाहयति विघ्न विघ्नेश्वरागच्छ विघ्नेत्येव नमस्कृत अविघ्नाय भवान् सम्यक्सदाऽस्माकं भव प्रभो इति २
अथ दूर्वाक्षतसुमनोमिश्रमर्घ्यं ददाति इमा आपश्शिवाश्शिवतमाश्शान्ताश्शान्ततमाः पूताः पूततमाः पुण्याः पुण्यतमाः मेध्या मेध्यतमा जुष्टा जुष्टतमा अमृता अमृतरसाः पाद्या अर्घ्या अर्हणीया अभिषेचनीया आचमनीया मार्जनीयाश्च प्रतिगृह्यन्तां प्रतिगृह्णातु भगवान् विनायको विनायकाय नमः इति ३
अथ तूष्णीं वा गन्धपुष्पधूपदीपैरभ्यर्च्योपतिष्ठते भूपतये नमो भुवनपतये नमो भूतानां पतये नमः इति ४
उपस्थाय तिस्रो विनायकाहुतीर्जुहोति विनायकाय भूपतये नमो विनायकाय स्वाहा । विनायकाय भुवनपतये नमो विनायकाय स्वाहा । विनायकाय भूतानां पतये नमो विनायकाय स्वाहा इति । जयप्रभृति सिद्धमाधेनुवरप्रदानात् ५
अपूपं करभ्भमोदकम् सक्तून् पायसमित्यथास्मा उपहरति विघ्नाय स्वाहा । विनायकाय स्वाहा । वीराय स्वाहा । शूराय स्वाहा । उग्राय स्वाहा । भीमाय स्वाहा । हस्तिमुखाय स्वाहा । वरदाय स्वाहा । विघ्नपार्षदेभ्यस्स्वाहा । विघ्नपार्षदीभ्यस्स्वाहा इति ६
अथ भूतेभ्यो बलिमुपहरेत् ये भूताः प्रचरन्ति इति ७
अथ पञ्चसूत्रं कङ्कणं हस्ते व्याहृतिभिः बध्नाति विनायक महाबाहो विघ्नेश भवदाज्ञया । कामा मे साधितास्सर्वे इदं बध्नामि कङ्कणम् इति ८
अथ साग्निकं विनायकं प्रदक्षिणं कृत्वा प्रणम्याभिवाद्य विनायकं विसर्जयति कृतं यदि मया प्राप्तं श्रद्धया वा गणेश्वर । उत्तिष्ठ सगणस्साधो याहि भद्रं प्रसीदतोम् इति ९
तस्मिन्याते द्वादशेध्मसमिद्धेनोपरि मध्यमं चैव दक्षिणोर्ध्वं समिधं तथा दधिमधुपयआज्यं स्नमिश्र्य परिषेचनं विसर्जनं कल्पयति १०

इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने दशमोऽध्यायः