अथ तृतीयप्रश्ने नवमोऽध्यायः
अथातो ज्येष्ठाकल्पं व्याख्यास्यामः तिलतैलमाज्यं पयोदधिसक्तून् लाजान् करम्भान् कृष्णानि वासांसीति सम्भारानुपकल्पयते १
प्रोष्ठपदायामनूराधायां वाऽहविष्यं भुञ्जीत २
अथ श्वोभूते ज्येष्ठामनुस्मरन्नुत्थाय देवागारे रहस्यप्रदेशे वा यत्र रोचते मनस्तत्र स्थण्डिलं कृत्वाऽथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वाऽग्रेणाग्निं ज्येष्ठादेवीमावाहयति यस्यास्सिंहा रथे युक्ता व्याघ्राश्चाप्यनुगामिनः । तामिमां पुण्डरीकाक्षीं ज्येष्ठामावाहयाम्यहम् ३
इत्यावाह्य इह लोकाकीर्तये नमः । परलोकाकीर्तये नमः । श्रियै नमः । ज्येष्ठायै नमः । सत्यायै नमः । कपिलपत्न्यै नमः । कपिलहृदयायै नमः । कुम्भ्यै नमः । कुम्भिन्यै नमः । प्रकुम्भ्यै नमः । ज्यायायै नमः । वरदायै नमः । हस्तिमुखायै नमः । विघ्नपार्षदायै नमः । विघ्नपार्षद्यै नमः इति तर्पयति ४
आपो हिष्ठा मयोभुवः हिरण्यवर्णाः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा तैरेव नामधेयैर्गन्धपुष्पधूपदीपैः अमुष्यै नमोऽमुष्यै नमः इति परिधानप्रभृत्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति इन्द्रो ज्येष्ठामनु नक्षत्रमेति इति पुरोनुवाक्यामनूच्य पुरन्दराय वृषभाय धृष्णवे इति याज्यया जुहोति ५
अथाज्याहुतीरुपजुहोति इन्द्राय स्वाहा । ज्येष्ठाय स्वाहा । श्रेष्ठाय स्वाहा । प्रजापतये स्वाहा इति । नमस्सुते निरृते इति षड्भिरनुच्छन्दसम् ६
अथ कुत्सैर्जुहोति ७
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां भूर्भुवस्सुवरॐ ज्येष्ठायै हविर्निवेदयामि इति निवेदयति ८
अथ दिशां बलिं हृत्वा गन्धमाल्ये द्वे वाससी निवेद्यं दत्वाऽन्नं च ब्राह्मणेभ्यो दत्वा नमस्सुते निरृते इति षड्भिरुपस्थाय स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ९
यस्यास्सिंहा रथे युक्ता व्याघ्राश्चाप्यनुयायिनः । तामिमां पुण्डरीकाक्षीं ज्येष्ठामुद्भासयाम्यहम् १०
इत्युद्वास्य ज्येष्ठामन्त्रं सहस्रकृत्वः आवर्तयेच्छतकृत्वोऽपरिमितकृत्वो वा दशावरम् ११
शाकयावकभैक्षमूलफलाशी अधश्शायी श्वोभूते तथैवाभ्यर्च्य षण्मासादूर्ध्वं समाचरन् नित्यानामाशास्यान् सर्वान् कामानवाप्नोतीति ह स्माह भगवान् बोधायनः १२
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने नवमोऽध्यायः