०८

अथ तृतीयप्रश्ने अष्टमोऽध्यायः

अथातो रविकल्पं व्याख्यास्यामः मण्डलं चतुरश्रं वा गोमयेन गोचर्ममात्रं स्थण्डिलं कृत्वाऽष्टाचत्वारिंशत्कृत्वो रविवारे ताम्रपात्रे रक्तगन्धं रक्तपुष्पं वा घृणिम्सूर्य आदित्यः इत्यावाह्य आसत्येन इत्यर्घ्यं दद्यात् हंसश्शुचिषत् इति पाद्यं अग्निर्मूर्धा इत्याचमनीयम् । आपो हिष्ठा मयोभुवः हिरण्यवर्णाः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वाऽद्भिस्तर्पयति धातारं तर्पयामि विधातारं तर्पयामि अर्यमणं तर्पयामि मित्रं तर्पयामि वरुणं तर्पयामि भगवन्तं तर्पयामि हसं तर्पयामि पूषाणं तर्पयामि पर्जन्यं तर्पयामि विवस्वन्त तर्पयामि इन्द्रं तर्पयामि रविं तर्पयामि इत्येतैरेव नामधेयैर्गन्धपुष्पधूपदीपैः अमुष्मै नमोऽमुष्मै नमः इति । व्याहृतीभिः पुरुषमुद्वासयामि इत्युद्वास्याथापूपं दद्यादष्टाचत्वारिंशत् १
एकवारमर्चयित्वा कुष्ठरोगी क्षयरोगी २
वन्धाद्विमुच्यते बद्धो रोगी रोगाद्विमुच्यते ३ इत्याह भगवान् बोधायनः ४

इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने अष्टमोऽध्यायः