०७

अथ तृतीयप्रश्ने सप्तमोऽध्यायः

अथातो विष्णुकल्पं व्याख्यास्यामः आषाढकार्तिकफाल्गुनशुक्लपक्षेषु द्वादश्यां यदा श्रद्धा भवत्यहोरात्रमुपोषितश्श्वोभूते प्राग्वोदग्वाऽरण्ये शुचिर्गृहे वा यत्र रोचते मनस्तत्र स्थण्डिलेऽग्निमुपसमाधाय सम्परिस्तीर्याप्रणीताभ्यः कृत्वा सिद्धे पायसे यत्ते पवित्रं पवित्रं ते विततम् इत्युदाहृत्य ओम् इति विद्युद्गन्धोशीरमयं भगवन्तं श्वेतपीतरक्तप्रतिसरेणावेष्ठ्य स्थापयित्वावाहयेत् ॐ भूः पुरुषमावाहयाम्यॐ भुवः पुरुषमावाहयाम्यॐ सुवः पुरुषमावाहयाम्यॐ भूर्भुवस्सुवः पुरुषमावाहयामि इत्यावाह्य प्रसिद्धमासनस्नानपाह्याचमनीयानि दद्यात् सर्वसुरभिगन्धपुष्पधूपदीपमाल्यैरभ्यर्च्य यथोपपन्नं बर्हिष्यश्वत्थपर्णे प्रस्तरे गोभिर्जुष्टम् इति धूपभाजने न्यस्यति १
ततष्षोडशाज्याहुतीर्जुहोति पुरुषसुक्तेन परो मात्रया इति तिसृभिः । पवमानमुपनिनीय चरोराज्यमिश्रं चतस्रः आहुतीर्जुहोति वासुदेवाय स्वाहा बलदेवाय स्वाहा विष्णवे स्वाहा श्रियै स्वाहा इति २
स्विष्टकृतमवदायान्तः परिधि सादयित्वा दैवतमर्चयत्येतैरेव नामधेयैः अमुष्मै नमोऽमुष्मै नमः इति गन्धपुष्पधूपदीपैरन्नेन अमुष्मै स्वाहाऽमुष्मै स्वाहा इति फलोदकेन अमुं तर्पयाम्यमु तर्पयामि इति स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ३
आभिर्विश्वा अभियुजः इति जानुं निपात्य चतुःप्रदक्षिणं परिक्रामेत् विश्वभुजे नमः । सर्वभुजे नमः । आत्मने नमः । परमात्मने नमः इति । ध्रूवसूक्तं जपित्वा पुरुषमुद्वासयेत् ॐ भूः पुरुषमुद्वासयाम्यॐ भुवः पुरुषमुद्वासयाम्यॐ सुवः पुरुषमुद्वासयाम्यॐ भूर्भुवस्सुवः पुरुषमुद्वासयामि इत्युद्वास्य यत्रापस्तद्गत्वोत्सृजेदवभृथम् ४
प्रतत्ते अद्य किमित्ते विष्णो परिचक्ष्यं भूत् इति द्वाभ्यां प्रतिसरं विस्रंसयति ५
इदं विष्णुर्विचक्रमे इत्येतया चरुं प्राश्नाति ६
एवं घोषयेत् यो वैष्णव इत्याह वैष्णवोऽस्मि इति यः प्रतिब्रूयात्तस्मै शेषं दद्यादेतैरेव मन्त्रैः प्राश्नाति ७
प्राश्याप आचम्य ॐ नमो भगवते वासुदेवाय इति द्वादशाक्षरं जपित्वाऽश्वमेधफलमाप्नोति सकृदिष्ट्वा सनातनमिति ८

इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने सप्तमोऽध्यायः