०६

अथ तृतीयप्रश्ने षष्ठोऽध्यायः

अथातस्सरस्वतीकल्पं व्याख्यास्यामः शुक्लपक्षे त्रयोदश्यां वोत्तरयोः फल्गुन्योर्वा पुण्ये नक्षत्रेऽथ देवयजनोल्लेखनप्रभृत्या प्रणीताभ्यः कृत्वाऽग्रेणाग्निं सरस्वतीमावाहयति आयातु वरदा देव्यक्षरं ब्रह्मसम्मितम् । गायत्रीं छन्दसां मातेदं ब्रह्म जषस्व नः १ सरस्वतीमावाहयामि इत्यावाह्यात्र स्थानानि कल्पयति वाग्देव्यै कल्पयामि गीर्देव्यै कल्पयामि सरस्वत्यै कल्पयामि ब्राह्म्यै कल्पयामि इति २
अथैनाः स्नापयति आपो हिष्ठा मयो भुवः हिरण्यवर्णाः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वाऽद्भिस्तर्पयित्वैतैरेव नामधेयैर्गन्धपुष्पधूपदीपैः अमुष्यै नमोऽमुष्यै नमः इति परिधानप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति पायसं वा चोदयित्री सूनृतानां पावीरवी कन्या इति द्वाभ्याम् ३
अथाज्याहुतीरुपजुहोति प्रणो देवी आ नो दिवः ये ते सरस्व ऊर्मयः उत नः प्रिया प्रियासु इमा जुह्वाना यस्ते स्तनश्शशयः देवीं वाचमजनयन्त यद्वाग्वदन्ती इत्येतेन सूक्तेन ४
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ५
आथाग्रेणाग्निं पलाशपर्णेषु हुतशेषं निवेदयित्वा बाह्यबलिं दत्वोदेत्यापरेणाग्निं प्राङ्मुखं कुमारमुपवेश्य विद्यारम्भं कुरुते ६
अनन्तरं देवीमुद्वासयेत् उत्तमे शिखरे देवि भूम्यां पर्वतमूर्धनि । ब्राह्मणेभ्यो ह्यनुज्ञानं गच्छ देवि यथासुखम् ७
इति पुनरागमनाय पुनर्दानाय ८
एवमेव मासि मासि विद्याकाङ्क्षी सरस्वतीमाराधयेदित्याह भगवान् बोधायनः ९

इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने षष्ठोऽध्यायः