०५

अथ तृतीयप्रश्ने पञ्चमोऽध्यायः

अथातश्श्रीकल्पं व्याख्यास्यामः शुक्लपक्षस्य पञ्चम्यां पौर्णमास्यामपि वा श्रियं कदम्बमयीं बिल्वसारमयीं स्थण्डिले वा विधायाहोरात्रोपोषितश्शुचिः कृतशौचस्समे देशे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य गन्धमुमनसस्सम्प्रकीर्य हिरण्मयेन पात्रेणोदकं पूरयित्वा गन्धान् सुमनसः तस्मिन् हिरण्यवर्णां हरिणीम् इति द्वाभ्यां ॐ भूः श्रियमावाहयामि ॐ भुवः श्रियमावाहयामि ॐ सुवः श्रियमावाहयामि ॐ भूर्भुवस्सुवः श्रियमावाहयामि इत्यावाह्य कर्दमेन इति द्वाभ्यां प्रसिद्धं प्रोक्ष्य अश्वपूर्वां इति स्नापयित्वा गन्धद्वाराम् इति गन्धं ददाति कां सोऽस्मि ताम् इति पुष्पं ददाति उपैतु माम् इति धूपं ददाति चन्द्रां हिरण्मयीम् इति दीपं ददाति चन्द्रां प्रभासाम् इति नैवेद्यं ददाति १
अथ देव्या दक्षिणतोऽग्निमुपसमाधाय सम्परिस्तीर्य महाव्रीहिभिस्तण्डुलैः पायसं चरुं श्रपयित्वा हविर्द्विधा कृत्वा मनसः कामम् इत्यभिप्रेत्य काममन्नं वाऽऽज्यमिश्रं श्रीसूक्तेन पञ्चदशर्चेन हविर्जुहोति २
तेन सूक्तेन श्रियै नमः पुष्ट्यै नमो धात्र्यै नमस्सरस्वत्यै नमः इति बलिमुपहरति ३
पद्मपुष्पाणि यथालाभं गृहीत्वा प्रत्यङ्गं निमार्ष्टि क्षुत्पिपासाम् इत्यलक्ष्मीं निर्णुदति ४
एवमेवाहरहर्मासिमासि वा महान्तं पोषं पुष्यति धन्यं यशस्यमारोग्यमायुष्यं पुत्र्यं पशव्यं तस्य महत्स्वस्त्ययनमित्याह भगवान् बोधायनः ५

इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने पञ्चमोऽध्यायः