०४

अथ तृतीयप्रश्ने चतुर्थोऽध्यायः

अथात उपश्रुतिकल्पं व्याख्यास्यामः आदित्यवारेऽङ्गारकवारे वा चतुर्थ्यामष्टम्यां चतुर्दश्यां भरण्यां कृत्तिकायां वा क्रियेत १
पूर्वेद्युरकृतभुक्तिश्शुचिर्ब्रह्मचारी भूत्वाऽथ प्रदोषेऽग्निमुपसमाधाय सम्परिस्तीर्य तस्य दक्षिणत उपश्रुतिमावाहयेत् ॐ भूः रात्रीं देवीमावाहयाम्यॐ भुवरुपश्रुतिं देवीमावाहयाम्यॐ सुवर्महारात्रीं देवीमावाहयाम्यॐ भूर्भुवस्सुवः महाकालरात्रीं देवीमावाहयामि इत्यावाह्याथैनां स्नापयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाः इति चतसृभिः पवमानः इत्येतेनानुवाकेन मार्जयित्वा गन्धैः कृष्णपुष्पैर्धूपैर्दीपैरलङ्कृत्याज्यं संस्कृत्य जुहोति रात्र्यै देव्यै स्वाहोपश्रुत्यै देव्यै स्वाहा महारात्र्यै देव्यै स्वाहा महाकालरात्र्यै देव्यै स्वाहा निशायै स्वाहा क्षपायै स्वाहा कृष्णायै स्वाहाऽन्धकारिण्यै स्वाहा यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्यां च जुहोति २
अथ समन्तं परिषेकं कृत्वा रात्रिसूक्तेनोपतिष्ठते ३
व्याहृतीभिः रात्रीं देवीमुद्वासयामि इत्युद्वास्याथ व्रजेत् श्मशानदेशे देवागारे श्रोत्रियागारे कुलालकारुदेशे वा गच्छेत् ४
नवधनुर्मात्रात् कर्णौ बध्नाति ५
स्वस्ति न इन्द्रो वृद्धश्रवाः इत्येतामृचं जपित्वा विमुञ्चेद्व्यक्तं तत्प्रतिगृह्यतामनुरूपं युज्यतां सर्वकर्मणां चारम्भ इत्याह भगवान् बोधायनः ६

इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने चतुर्थोऽध्यायः