अथ तृतीयप्रश्ने तृतीयोऽध्यायः
अथातो दुर्गाकल्पं व्याख्यास्यामः यज्ञोपवीतं रक्तपद्मपुष्पं सम्भारानुपकल्प्य मासिमासि कृत्तिकापूर्वाह्णे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलं कृत्वा प्रोक्ष्य शौचेन सुव्रतस्तिष्ठन् भगवतीमावाहयेत् जातवेदसे इति ओमार्यां रौद्रीमावाहयामि इत्यावाह्य तामग्निवर्णां इति कूर्चं दत्वा अग्ने त्वं पारय इति यज्ञोपवीतं दत्वाऽथैनां स्नापयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाः इति चतसृभिः पवमानः इत्येतेनानुवाकेन मार्जयित्वा आर्यायै रौद्र्यै महाकाल्यै महायोगिन्यै सुवर्णपुष्प्यै देवसङ्कीर्त्यै महायज्ञ्यै महावैष्णव्यै महापृथिव्यै मनोगम्यै शङ्खधारिण्यै नमः इत्येकादशनामधेयैर्गन्धपुष्पधूपदीपैः अमुष्यै नमोऽमुष्यै नमः इत्येतैरेवार्चयित्वा सावित्र्या भगवत्यै दुर्गादेव्यै हविर्निवेदयामि इति हविर्निवेद्य शेषमेकादशनामधेयैर्हुत्वा पञ्चदुर्गा जपेद्दश स्वस्ति जपेत् जातो यदग्ने वषट् ते विष्णो वास्तोष्पते एवावन्दस्व आ नो नियुद्भिः हिरण्यवर्णाः अभयं कृणोतु अश्वावतीः त्वं वरुणः बृहस्पते युवमिन्द्रश्च स्वस्ति न इन्द्रो वृद्धश्रवाः इति जपित्वा शं च मे मयश्च मे इत्येतैरेकादशभिरनुवाकैश्च जपेत् सावित्र्या भगवत्यै दुर्गादेव्यै हविरुद्वासयामि इत्युद्वास्य शेषं ब्राह्मणेभ्यो दत्वा संवत्सरमुपासीत १ सर्वकामास्सिध्यन्तीत्याह भगवान् बोधायनः २
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने तृतीयोऽध्यायः