०२

अथ तृतीयप्रश्ने द्वितीयोऽध्यायः

अथातो व्याहृतिकल्पं व्याख्यास्यामः त्रिषवणं स्नायादवश्शय्यासनस्त्रिरात्रमहोरात्रं वोपोष्य द्वादशसहस्रं व्याहृतीर्जपेत् १
कृतपुरश्चरणोऽथ कर्माण्यारभते २ दधिमधुघृताक्तानां पलाशसमिधामाहुतिसहस्रं जुहुयाद्ब्रह्मवर्चसकाम आज्येन तेजस्कामः पयसा पशुकामो दध्नेऽन्द्रियकाम ओदनेनान्नाद्यकामो व्रीहिभिर्यवैर्धान्यकामः कन्याकामो लाजैस्तिलै राक्षोघ्नं पापनाशनं च सद्य एव विनश्यति ज्वरो वानस्पत्यानां न्यग्रोधैः पुत्रकामः प्लक्षैर्गृहकामोऽश्वत्थैः पुष्टिकामश्शमीमयैश्शान्तिकामोऽपामार्गैर्वश्यकामः खादिरैराधिपत्यकामोऽर्कसमिद्भिरर्थकामः पलाशसमिद्भिस्सर्वकामः ३
यावज्जुहोति तावदाप्नोतीति ह स्माह भगवान् बोधायनः ४

इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने द्वितीयोऽध्यायः