अथ तृतीयप्रश्ने प्रथमोऽध्यायः
अथातः पवित्राणां पवित्रायातिपवित्रायापराजिताय गुह्याय ब्रह्महृदयाय ॐकारकल्पं व्याख्यास्यामः १
यत्र ग्राम्याणां पशूनां शब्दं नोपशृणुयादपां समीपे ब्रह्मवृक्षेणैकस्थूणां कुटीं प्राङ्मुखां कारयेत् २
कुशध्वजी कुशवेष्टी कुशचीरवासाः कुशोपवीतः कुशोपविष्टः कुशहस्तः कुशमेखलां धारयमाणः त्रिषवणस्नायी कुशशायी शाकयावकयोर्भैक्षाहार आदित्याभिमुखस्तिष्ठन्नोङ्कारं पञ्चसहस्रं जपेत्ततोऽस्य मन्त्रास्सर्वे सिध्यन्ति सर्वे वेदा अधीता भवन्ति सर्वेषु वेदेषु चीर्णव्रतो भवति सर्वेषु तीर्थेषु स्नातो भवति सर्ववेदो ज्ञातो भवति सर्वैर्देवैर्ज्ञातो भवति सर्वयज्ञक्रतुभिरिष्टवान् भवत्याचक्षुषः पङ्क्तिं पुनाति मातापितृदोषैः पुरुषदोषैश्च निर्दोषः पूतो भवति चण्डालश्वपाकानां पुनाति ३
श्वेतायास्सरूपवत्सायाः पयसि स्थालीपाकं श्रपयित्वाऽऽदित्याभिमुख ओङ्कारसहस्रेणाभिमन्त्रितं कृत्वा स्वयं प्राश्नीयात् सप्तानां पुरुषाणामलक्ष्मीं नुदति जातिस्मरत्वं लभते श्रियं देवीं भजते ब्रह्मचर्यमस्याविच्छिन्नं सन्ततं भवति ४
प्रणवाद्यास्तथा वेदाः प्रणवे पर्यवस्थिताः वाङ्मयं प्रणवं सर्वं तस्मात्प्रणवमभ्यसेत् ५
प्रणवेन विहीनं यत्तन्मन्त्रं प्राणहीनकम् सर्वमन्त्रेषु मन्त्राणां प्राणः प्रणव उच्यते ६
इत्याह भगवान् बोधायनः ७
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने प्रथमोऽध्यायः