२२

अथ द्वितीयप्रश्ने द्वाविंशोऽध्यायः

अथ देवयोः पूजाकरणे सर्वत्र त्रीणि पदा विचक्रमे त्र्यम्बकं यजामहे इत्येताभ्यां यथालिङ्गमासनं पाद्यमाचमनीयं च १ एतयोस्त्रैवर्णिकधर्मत्वात् सर्वत्र वचनाल्लोकप्रसिद्धप्राप्तप्रतिषेधाभावात् क्रियत इति ह स्माह बोधायनः २
एवं प्रतिष्ठाप्य वा कुर्यात्तयोरेव सायुज्यं सलोकतामाप्नोति ३
यदि त्रिंशत्संवत्सरादूर्ध्वं क्रियेत ततो देवयोः परमं पदं ब्रह्मसञ्ज्ञितं तदेव सगण आप्नोति ४
यदि तत्प्रवणः स्याद्य उ चैनदेवं विदुर्यस्मै प्रब्रूते यस्मै वा करोति तस्मै शतं दद्यान्माषाणां ब्राह्मणो राजन्यस्सहस्रं दद्याद्वैश्यो यथाश्रद्धं दद्यात् ५
न स्त्रीशूद्रौ कुर्यातां यदि कुर्यातां स्वतन्त्रोपदेशे आचार्य आश्रय इति ६ स्वतन्त्रयोस्तयोश्चेद्वृत्तिक्षीणोऽपि ब्राह्मणः पतत्येवेति शालिकिः ७
अथ देवयोर्यथाकामी स्याद्यस्याङ्कस्याञ्चिदवस्थायां जले वा स्थण्डिले वा प्रतिमासु वा सर्वं कृत्वाऽभ्यर्चयेन्न तु प्रमाद्येत् ८
देशाभावे द्रव्याभावे साधारणे कुर्यान्मनसा वाऽर्चयेदिति । तदाह भगवान् पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः । इति ९ भक्तिनम्रः एतान्मन्त्रानधीयीत न त्वेवानर्चकः स्यादन्यतरस्योभयोर्वा ततस्तयोरेव सायुज्यं सलोकतामाप्नोति १०
य एतयोरर्चनां कुरुतेऽन्यत्र पुत्रशिष्येभ्यः स्त्रियाश्च तस्मै सौवर्णं शङ्खं सुवर्णोपधानं वा दद्यादृषभं रुद्रस्य दक्षिणेत्याह भगवान् बोधायनः ११ प्रतिष्ठाकरणे स्नापनकरणे वाचार्याय तदुपकरणं सर्वं दत्वा ऋषभैकादश गा दद्यादित्याह भगवान्बोधायनः १२

इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने द्वाविंशोऽध्यायः