अथ द्वितीयप्रश्ने एकविंशोऽध्यायः
अथातस्सम्प्रवक्ष्यामि देवस्य स्नपने विधिम् महतो लिङ्गदेशे वा कारयेद्वेदिकां बुधः १
मण्डलं च पुराणोक्तं कृत्वा स्नपनमारभेत् अचलप्रतिष्ठितो यत्र देवस्तत्र न वेदिका २
तस्यास्समीपे तत्स्थाने कलशस्थानमुत्तमम् सङ्ख्या च नव तेषां तु स्थापनं प्रणवेन तु ३
यत्किञ्चित्क्रियते तत्र प्रणवेनैव कथ्यते स्थापनं कलशानां तु प्रागादीशानमन्ततः ४
एतैरेव क्रमैरत्र सर्वं कर्म विधीयते नवमं कलशं मध्ये स्थापयेदन्ततो बुधः ५
कूर्चेषु स्थापयेत्सर्वं व्रीहिभिस्तण्डुलेषु च व्रीहयश्शालयः प्रोक्ताः कलशांस्थापयेद्बुधः ६
तेषामभावे यत्किञ्चिद्ग्राम्यं धान्यमिहेष्यते पूरयेत्कलशान्त्सर्वान् शुद्धस्फटिकसन्निभैः ७
जलैस्तु मध्यमं तत्र पञ्चगव्येन पूरयेत् कूर्चान्निधाय सर्वेषु शरावैरपिधाय च ८
अरिक्तैरेव कर्तव्यश्शरावैर्नवभिस्सदा अपिधानक्रिया तेषां शालिजैरेव तण्डुलैः ९
अर्चयेत्कलशान्त्सर्वान् गन्धपुष्पादिभिः क्रमात् प्राप्ते मुहूर्त आवाह्य परमात्मानमात्मवान् १०
रुद्रदेवं शिवं साक्षाद्यच्च सर्वस्य दैवतम् तस्मादावाहयेत्प्राज्ञः सर्वत्रावाहने विधिः ११
एष औत्सर्गिकः प्रोक्तो देवतानां च तर्पणे नारायणादि विष्णोस्स्याद्रुद्रस्य तु शिवादिकम् १२
जपध्यानादि सर्वं स्यात् विकल्पं मनसि श्रयेत् रौद्रं च सूक्तमापो हि हिरण्येति च सप्तकम् १३
वैकल्पिकैरेव कुर्यान्मध्येति तु न विद्यते अथ हैके वदन्त्येवं स्नापने तु महाप्रभोः १४
सद्योजातादिपञ्चैव सर्वो वै रुद्र इत्यपि एतैरन्यैश्च कुर्याद्वै स्नापनं सार्वकालिकम् १५
एवं च कुर्यात्स्नाने तु स्नापनेऽर्चा तथा भवेत् इत्याह भगवान् बोधायनः १६
इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने एकाविंशोऽध्यायः