अथ द्वितीयप्रश्ने विंशोऽध्यायः
अतः परं प्रवक्ष्यामि पञ्चगव्यविधिं क्रमात् उत्तमं द्रोणमेकं तु मध्यमं तु तदर्धकम् १
तदर्धमधमं ज्ञेयं त्रिविधं परिकीर्तितम् प्रथपादं घृतं प्रोक्तं गोमूत्र द्विगुणं भवेत् २
गोमयं कुडुपं प्रोक्तं दधि प्रस्थसमन्वितम् क्षीरं प्रस्थद्वयं प्रोक्तं ३
स्नापनं पञ्चगव्येन भुक्तिमुक्तिप्रदं नृणाम् कपिलाया वरं क्षीरं श्वेतायास्तु वरं दधि रक्ताया वरमाज्यं वै शेषौ शवलकृष्णयोः ४
प्रयतो देवस्य गृहं गत्वा पुरतो मण्डपे समे देशे गोमयेनोपलिप्य व्रीहिभिर्यवैर्वा खारिमात्रं तदर्धं वा सङ्गृह्य सौवर्णं राजतं कांस्यं मृण्मयं वा नव कलशान् याचति ५
तन्तुना परिवेष्ट्य शुचौ देशे निधाय स्थण्डिलस्य दक्षिणता उदङ्ङासीनो दशनामभिर्ब्राह्मणानामन्त्र्य पुण्याहं वाचयित्वा प्रोक्ष्य व्रीहिभिस्स्थण्डिलं कृत्वा तस्य मध्यतः प्रादेशाद्दक्षिणवामपार्श्वे सुवर्णशकलेन ऋजुमुल्लिखेत् ब्रह्म जज्ञानम् इति दक्षिणतः । पिता विराजाम् इत्युत्तरतः । तयोर्दक्षिणतो नाके सुपर्णम् इति तयोरुत्तरतः आप्यायस्व इति । सन्ततमृजुमुल्लिखेत् यो रुद्रो अग्नौ इति पश्चात् । सर्वो वै रुद्रः इति पुरस्तात् । तयोः पश्चात् इदं विष्णुर्विचक्रमे इति । तयोः पुरस्तात् इन्द्रं विश्वा अवीवृधन् इति ६
अथाभ्युक्ष्य शकलं निरस्याप उपस्पृश्य भूर्भुवस्सुवरॐ ब्रह्मणे नमः इति मध्यमपदेऽभ्यर्च्य ईशानाय नमः इतीशपदे तत्पुरुषाय नमः इति पूर्वे अघोराय नमः इति दक्षिणे वामदेवाय नमः इत्युत्तरे सद्योजाताय नमः इति पश्चिमे हृदयाय नमः इति दक्षिणपूर्वे शिरसे नमः इत्युत्तरपूर्वे शिखायै नमः इति दक्षिणपश्चिमे कवचाय नमः इति पश्चिमोत्तरे अस्त्राय नमः इति दिग्विदिक्ष्वभ्यर्च्य ब्रह्मणे नमः इति मध्ये प्रधानकलशं स्थाप्य ईशादिपदेषु तत्तन्मन्त्रेण कलशान् संस्थाप्य प्रोक्षणीस्संस्कृत्य पात्राणि प्रोक्ष्य गव्यानि च प्रोक्षणीपात्रपरिमाणं कुशोदकं देवस्य त्वा इति ब्रह्मकुम्भे आनयति । आपो वा इदं सर्वम् इत्यभिमन्त्र्य कूर्चं निधायेशपात्रे सपवित्रेण क्षीरम् । पुरुषे दधि । अघोरे घृतम् । सौम्ये गोमयम् । वारुणे गोमूत्रम् । हृदये पिष्टं कदल्यादीनि च । नालिकेरं शिरसि । आमलकं शिखायाम् । कवचे हारिद्रम् । तत्तन्मन्त्रेणावाहनाद्याचमनान्तं कृत्वा सम्परिस्तीर्याथैनं स्नापयति आपो हिष्ठा मयो भुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन ब्रह्म जज्ञानं कद्रुद्राय सर्वो वै कया नश्चित्रः आपो वा इदम् इति प्रदक्षिणमुदकं व्याहृतीभिः परिषिच्याथाद्भिस्तर्पयति । स्वेन मन्त्रेण गन्धपुष्पधूपदीपैरभ्यर्च्य बलिमुपहृत्य तत्सवितुर्वरेण्यम् इति सद्यःपात्रमादाय ब्रह्मपात्रेण योजयेत् सद्योजातम् इत्यनुवाकेन । गन्धद्वाराम् इति वामदेवमादाय वामदेवानुवाकेन ब्रह्मपात्रेण योजयेत् । आप्यायस्व इति क्षीरकुम्भमादायेशानानुवाकेन योजयेत् । दधिक्राव्ण्णः इति दध्यादाय पुरुषानुवाकेन योजयेत् । शुक्रमसि इत्यनुद्रुत्य घृतमादायाघोरानुवाकेन योजयेत् । सोहमिति फलैरवकीर्य गन्धादिभिरभ्यर्च्य व्योमव्यापिना सम्पूज्य पञ्चगव्यं भवतीति ७
अथ देवस्य समीपं गत्त्वा निर्माल्यं व्यपोह्य प्रणवेन देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बादुभ्यां पूष्णो हस्ताभ्यां सरस्वत्यै भैषज्येन वीर्यायान्नाद्यायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामिन्द्रस्येन्द्रियेण श्रियै यशसे बलायाभिषिञ्चामि इति त्रिभिः । अथ पिष्टामलकहरिद्रादिभिः स्नापयति । सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिः हिरण्यवर्णाभिः पावमानीभिः व्याहृतीभिरन्यैश्च पवित्रसमूहैश्चमकनमकादिभिरभिषेकं कुर्यात् ८
पुनरेव यथाशक्ति दक्षिणां दद्यादाचार्याय वस्त्रकुण्डलाभरणाङ्गुलीयधेनुभूम्यादीनि दद्यात् ९
सर्वं पाप्मानं तरति तरति ब्रह्महत्यां ब्रह्मणस्सायुज्यं सलोकतामाप्नोति १०
नालिकेराम्रपनसकदलीनां फलत्रयम् शर्करामधुसंयुक्तं पञ्चामृतमिति स्मृतम् ११
ब्रह्मपात्रस्थितं तोयं चतुःप्रस्थं प्रचक्षते कपित्थफलमात्रकम् १२
यावत्सम्पादितं भक्त्या तावत्सम्पादयेद्बुधः इत्याह भगवान् बोधायनः १३
इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने विंशोऽध्यायः