१९

अथ द्वितीयप्रश्ने एकोनविंशोऽध्यायः

अथातः पुनःप्रतिष्ठाकल्पं व्याख्यास्यामः पूर्वोक्तेषु नक्षत्रेषु यानि चान्यानि शुभनक्षत्राणि शुक्लपक्ष उदगयने वसन्तादिकाले पूर्वं प्रतिष्ठितस्यापि बुद्धिपूर्वकमेकरात्रं द्विरात्रमेकमासं द्विमासं वाऽर्चनाविच्छेदे शूद्ररजस्वलापतिताद्युपप्लवे वा पूर्वेद्युरेव युग्मान् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वा समागतायां निशायां जलाधिवास कृत्वा श्वोभूत उत्थाय द्वौ कलशौ स्थापयेदेकं पञ्चगव्येन पूरयित्वाऽपरं शुद्धोदकेन सह रत्नेन स्नापयेत् १
अष्टसहस्रमष्टशतमष्टाविंशतिं वा मूलमन्त्रेण रुद्रगायत्र्या स्नापयित्वा पुष्पाणि दद्याद्यथालाभमर्चयित्वा गुडोदनं निवेदयेत् २
एवङ्कृतेऽस्य शान्तिर्भवति ३ बुद्धिपूर्वेणार्चनाविच्छेदे स्नापनं कर्तव्यम् ४
एवं कुर्वाणः स्वस्ति ऋद्धिमाप्नोतीत्याचक्षते ५ एवं पुनः प्रतिष्ठामन्त्रेण प्रतिष्ठापयेदित्याह भगवान् बोधायनः ६

इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने एकोनविंशोऽध्यायः